SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः शालिनी विद्या मंत्रो वा। बला च अतिबला चेति बलातिबले, तयोः, बलातिबलयोः विद्ययोः = मंत्रयोः, क्षुत्पिपादिविनाशकमंत्रयोरित्यर्थः प्रभावतः =सामर्थ्यात् , मातृणां पार्थे = समीपे परिवर्तिनौ = सञ्चरणशीलौ, इव = यथा पथि = मागें न परिमम्लतुः =न परिजग्लतुः, क्षुत्पिपासादिना न म्लानौ, इत्यर्थः। समास.-मणोनां कुट्टिमास्तत्र उचितौ तौ। मुनिना प्रदिष्टे, मुनिप्रदिष्टे, तयोः । बला च अतिबला च ते बलातिबले, तयोः। मातृणां पावं मातृपार्श्व, तत्र प्रवतेते, तच्छीलो, तौ मातृपार्श्वप्रवर्तिनौ। हिन्दी-मणियों से जड़े हुवे फर्श पर चलने के अभ्यासी राम लक्ष्मण, विश्वामित्र मुनि की सिखाई हुई बला और अतिबला नामक विद्या ( मंत्र ) के प्रभाव से ( जंगल के रास्ते में ) मुरझाए नहीं। “वे ऐसे प्रसन्न थे" मानों अपनी माताओं के आसपास अपने भवन में धूम रहे हो। दोनों राजकुमार कभी घर से बाहर नहीं निकले थे, इसलिये मार्ग में ही मुनि ने वला और अतिबला का उपदेश कर दिया था। इसके प्रभाव से भूख, प्यास, थकावट कुछ भी नहीं होती है ॥ ९॥ पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः । उह्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ॥१०॥ वाहनोचितः सानुजो राघवः । पुराविदः पूर्ववृत्ताभिज्ञस्य पितृसखस्य मुनेः पूर्ववृत्तकथितैः पुरावृत्तकथाभिरुह्यमान इव वाहनेन प्राप्यमाण इव । वहेर्धातोः कर्मणि शानच् । 'उह्यमानः' इत्यत्र दीर्घादिरपपाठः । दीर्घप्राप्त्यभावात् । पादचारमपि न व्यभावयन्न ज्ञातवान् ॥ अन्वयः–वाहनोचितः सानुजः राबवः, पुराविदः पितृसखस्य "मुनेः" पूर्ववृत्तकथितैः उह्यमानः इव पादचारम् अपि न व्यभावयत् । ___ व्याख्या वाहयन्तीति वाहनानि । वाहनैः = हस्तितुरंगमादिभिः उचितः = अभ्यस्तः, संचरितुमिति यावत्, स वाहनोचितः, अनुजेन सह सानुजः = लक्ष्मणसहितः, राघवः =रामचन्द्रः पुरा = पूर्वकालीनं वेत्ति = जानातीति पुराविद् , तस्य पुराविदः = पुराणेतिहासशस्य पितुः = जनकस्य दशरथस्येत्यर्थः सखा = सुहृत् , तस्य पितृसखस्य मुनेः पूर्व = पुरा वृत्तानि =जातानि तेषां कथितानि = कथाः तैः पूर्ववृत्तकथितैः प्राचीनकथाकथनेनेत्यर्थः । उह्यत इति उह्यमानः = प्राप्यमाणः इव = यथा, पादाभ्यां = चरणाभ्यां चारः = गमनं तं पादचारमपि न व्यभावयत् = न ज्ञातवान् । तेन पुराणेतिहासाख्यायिकादिश्रवणकौतूहलेन पादाभ्यां गमनमपि न ज्ञातमित्यर्थः । समासः-वाहनैः ‘संचरितुम्' उचितः, वाहनोचितः । अनुजेन सहितः सानुजः । पुरा वेत्तीति पुरावित् तस्य पुराविदः। पितुः सखा, तस्य पितृसखस्य । पूर्व वृत्तानि तेषां कथितानि तैः पूर्ववृत्तकथितैः । पादाभ्यां चारस्तं पादचारम् । हिन्दी—“दिव्य" रथों पर चलनेवाले राम लक्ष्मण, पुरानी कथाओं के ज्ञाता ( जानकार ) अपने पिता के मित्र विश्वामित्र की प्राचीन इतिहास की कथाओं से ले जाए जाते हुवे से, पैदल चलना भी नहीं जान पाए । अर्थात् मुनि के मुख से सुन्दर मनोहर कथा मुग्ध होकर सुनते हुवे चल रहे थे। अतः उन्हें पैदल चलना बिलकुल भी न खटक रहा था ॥१०॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy