SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ४७ हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥४५॥ सञ्जीविनी--ह्यस्तनगोदोहोद्भवं घृतं हेयंगवीनम् । ह्यः पूर्वद्युभवम् । 'तत्तु हेयंगवीनं यद्धयोगोदोहोद्भवं घृतम्' इत्यमरः । 'हेयंगवीनं संज्ञायाम्' इति निपातः। तत्सद्योघृतमादायोपस्थितान्घोषवृद्धान् । 'घोष आभीरपल्ली स्यात्' इस्यमरः । वन्यानां मार्गशाखिनां नामधेयानि पच्छन्ती। 'दुह्याच-'इत्यादिना पृच्छतेर्दिकर्मकत्वम् । कुलकम् ॥४५॥ ____अन्वयः-हयंगवीनम्, आवाय, उपस्थितान्, घोषवृद्धान्, वन्यानां, मार्गशा. खिमां, नामषेयानि पच्छन्ती, 'तो जग्मतुः । वाच्य०-हैयंगवीनमादाय, उपस्थितान् घोषवृद्धान्, वन्यानां, मार्गशाखिनां नामधेयानि पृच्छद्भ्यां 'ताभ्यां जग्मे'। व्याख्या--ह्यो गोदोहस्य विकारः, हेयंगवीनं, हयंगवीनं = सद्योघृतं, नवनीतमित्यर्थः, आदाय = गृहीत्वा दिलीपाय निवेदयितुमिति भावः । उपस्थितान् = समागतान्, घोषेषु = आभीरपल्लीष, ये वृद्धाः= स्थविराः, तान् घोषवृद्धान्, वने भवा वन्यास्तेषां वन्यानां = काननोद्भवानां, मार्गस्य = पथः, शाखिनः= वृक्षास्तेषां मागंशाखिना, 'वृक्षो महीरहः शाखी विटपी पादपस्तरुः' इत्यमरः । नामधेयानि =नामानि, पृच्छन्ती= जिज्ञासमानी, 'तो जग्मतुरिति, द्वादशश्लोकानां कुलकं समाप्तम् । समा०-ह्यो गोदोहस्य विकारः हेयङ्गवीनम् । घोषेषु वृद्धाः घोषवृद्धा। तान् घोषवृद्धान्। वने भवाः वन्याः तेषाम् वन्यानाम् । मार्गस्य शाखिनः तेषाम् मार्गशाखिनाम् । अभि०--राज्ञे, उपहारार्थ नवनीतमादाय समुपस्थितान्, आभीरवृद्धान् वनोत्पन्नमार्गवृक्षाणां नामानि पृच्छन्ती सुदक्षिणादिलीपो वसिष्ठाश्रमम्प्रति जग्मतुः । हिन्दी-भेंट देने को गौ का ताजा मक्खन लेकर आये हुए गांव के बूढे अहीरों से जंगली वृक्षों के नाम पूछते हुए, राजा तथा सुदक्षिणा जा रहे थे ॥४५॥ काप्यभिख्या तयोरासीद् ब्रजतोःशुद्धवेषयोः। हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥४६॥ सञ्जीविनी-व्रजतोर्गच्छतोः शुद्धवेषयोरुज्ज्वलनेपथ्ययोस्तयोः सुदक्षिणा
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy