SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ दशमः सर्ग: कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः । ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिपतस्थिरे ।।६३।। संजी. ---कृतेति । किंच, दिवि भवायां दिव्यायां त्रिस्रोतस्याकाशगङ्गायां कृताभिषेकैः कृतावगाहैः । परं ब्रह्म वेदरहस्यं गृणद्भिः सप्तभिर्ब्रह्मर्षिभिः कश्यपप्रभृतिभिरुपत स्थिर उपासांचक्रिरे ॥६३॥ __ अन्वयः-च दिव्यायां विस्रोतसि कृताभिषेकैः परं ब्रह्म गृणद्भिः सप्तभिः ब्रह्मर्षिभिः "ता" उपतस्थिरे। __ व्याख्या-च-किञ्च दिवि-स्वर्गे भवा दिव्या तस्यां दिव्यायां-स्वर्गीयायां त्रीणि स्रोतांसि यस्याः सा त्रिस्रोताः, तस्यां त्रिस्रोतसि आकाशगंगायां कृतः= विहितः अभिषेक: स्नानं यैस्ते तैः कृताभिषेकः परम् श्रेष्ठं बृंहति-वर्धते इति ब्रह्म-वेदं वेदहरस्यमित्यर्थः गृहद्भिः = जपद्भिः = पठद्भिरिति यावत् सप्तभिः= सप्तसंख्याकः ब्रह्म-वेदं, परब्रह्म वा ऋषन्ति-विदन्तीति ब्रह्मर्षयस्तैः ब्रह्मर्षिभिः= कश्यपवसिष्ठादिभिः “ताः" उपतस्थिरे -उपासाञ्चक्रिरे । समासः कृतः अभिषेकः यस्ते कृताभिषेकास्तैः कृताभिषेकैः । त्रीणि स्रोतांसि यस्याः सा त्रिस्रोताः तस्यां त्रिस्रोतसि । हिन्दी-स्वर्गीय, तीन स्रोत वाली गंगाजी में स्नान किये हुए सात कश्यपादि ब्रह्मर्षि, वेद का पाठ करते हुए उन रानियों की स्तुति कर रहे थे । यह भी स्वप्न में देखा ।।३।। ताभ्यस्तथाविधान्स्वप्नान् श्रुत्वा प्रीतो हि पार्थिवः। मेने पराय॑मात्मानं गुरुत्वेन जगद्गुरोः ॥६४ ॥ संजी०-ताभ्य इति । पार्थिवो दशरथस्ताभ्यः पत्नीभ्यः । 'पाख्यातो. पयोगे' (पा. १।४।२९) इत्यपादानत्वात्पञ्चमी । तथाविधानुक्तप्रकारान्स्वप्नाञ्छ्रुत्वा प्रीतः सन् । प्रात्मानं जगद्गुरोविष्णोरपि गुरुत्वेन हेतुना पराध्यं सर्वोकृष्टं मेने हि ॥६॥ अन्वयः--पार्थिवः ताभ्यः तथाविधान् स्वप्नान् श्रुत्वा प्रीतः सन् जगद्गुरोः गुरुत्वेन आत्मानं परायम् मेने । व्याख्या-पृथिव्याः ईश्वरः पार्थिवः राजा दशरथः ताभ्यः कौसल्याकैकेयी..
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy