SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः चक्र-सुदर्शनश्चेत्येतेषाम् द्वन्धः जलजासिगदाशाङ्गचक्राणि, तैः लाञ्छिता युक्ता शोभितेत्यर्थः मूर्तिः प्राकृतिः स्वरूपं येषां ते जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्तयस्तैः, जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः वामनः ह्रस्वः पुरुषः गुप्तंसुरक्षितम् प्रात्मानं - स्वं ददृशुः अवलोकयाञ्चक्रुः, दृष्टवत्य इत्यर्थः । ___सामः---जलजश्च असिश्च गदा च शाङ्गश्च चक्रं च जलजासिगदाशार्ङ्गचक्रारिण, तैः लाञ्छिता मूर्तिः येषां ते तैः जनजासिगदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः । हिन्दी-उन तीनों रानियों ने स्वप्न में, शंख तलवार गदा शाङ्ग धनुसुदर्शनचक्र धारण किये हुए छोटे २ पुरुषों से अपने को सुरक्षित देखा ॥६०।। हेमपक्षप्रभाजाले गगने च वितन्वता। उह्यन्ते स्म सुपर्णेन वेग कृष्टपयोमुचा ॥६१॥ संजी०-हेमेति । किंचेति चार्थः । हम्नः सुवर्णस्य पक्षाणां प्रभाजालं कान्तिपुञ्ज वितन्वता विस्तारयता। वेगेनाकृष्टाः पयोमुत्रो मेघा येन तेन । सुपर्णेन गरुत्मता गरडेन गगने ता उद्यन्ते स्मोहाः ॥६१।। अन्वयः च हेमपक्षप्रभाजल वितन्यता वेगाकृष्टपयोमुचा सुपर्णन गगने ता: उह्यन्ते स्म । व्याख्या-च किच हेम्नः- सुवर्णस्य पक्षा: गरुतः इति हेमपक्षाः, हेमपक्षाणां प्रभा कान्तिः, इति हेमपक्षप्रभा, तस्याः जाल-समूहः तत् हेमपक्षप्रभाजालं वितन्वता-विस्तारयता, वेगेन जवेन आकृष्टाः- प्रावजिताः पयोमुचः मेघाः येन स तेन वेगाकृष्टपयोमुचा, (पयांसि जलानि मुञ्चन्ति- त्यजन्तीति पयोमुचः ) कनकमयत्वात् सुवर्णवर्णत्वाद्वा सु-शोभने पर्णे-पक्षी यस्य स तेन सुपर्णेन-गरुडेन गच्छन्ति अनेन, अस्मिन् वा गगनं तस्मिन् गगने-पाकाशे ताः कौसल्याकैकेयीसुमित्राः उद्यन्ते स्म-प्राप्यन्ते स्म । ___ समास:-हेम्नः पक्षाः, हेमपक्षाः हेमपक्षाणां प्रभा हेमपक्षप्रभा, तस्याः जालं तत् हेमपक्षप्रभाजालम् । सु पर्णे यस्य सः तेन सुपर्णेन । पयांसि मुञ्चन्तीति पयोमुचः । वेगेन आकृष्टाः पयोमुचः येन स तेन वेगाकृष्टपयोमुचा । हिन्दी---और "यह भी देखा कि सोने के पंखों की कान्ति (प्रकाश) को बखेरने ( फैलाने ) वाला "और अपने" वेग से मेघों को "अपने साथ"
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy