SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः ३६५ संक्षोभस्तं पुष्पकालोकसंक्षोभम् । मेघाः एव आवरणानि मेघावरणानि, तेषु तत्पराः इति मेघावरणतत्पराः। हिन्दी---आकाश में विमानों पर चढ़कर चलने वाले, तथा मेघों की आड़ में छिपने में लगे, पुण्यात्मा आपलोग, अब अचानक रावण के विमान के दीख जाने पर उत्पन्न भय को त्याग दें। अर्थात् आपलोग अब स्वच्छन्द आकाश में विचरण करें, रावण से डरने की जरूरत नहीं है ।।४६।। मोक्ष्यध्वे स्वर्गबन्दीनां वेणीबन्धानदूषितान् । शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ।।४।। संजी०-मोक्ष्यध्व इति । हे देवाः ! यूयं शापेन नलकूबरशापेन यन्त्रिताः प्रतिबद्धाः पौलस्त्यस्य रावणस्य बलात्कारेण ये कचग्रहाः केशाकर्षास्तरदूषिताननुपहतान् स्वर्गवन्दीनां हृतस्वर्गाङ्गनानां वेणीबन्धान मोक्ष्यध्वे । पुरा किल नलकूबरेणात्मानमभिसरन्त्या रम्भाया बलात्कारेण संभोगात्क्रुद्धेन दुरात्मा रावणः शप्तः'स्त्रीणां बलाद्ग्रहणे मूर्धा ते शतधा भविष्यति'-इति भारतीया कथानुसंधेया ॥४७॥ अन्वयः-हे देवाः ! यूयम् शापयन्त्रितपौलस्त्यबलात्कारकचग्रहः श्रदषितान् स्वर्गबन्दीनां वेणीबन्धान मोचयध्वे । . व्याख्या-“भो देवाः ! यूयम्" पुलस्त्यस्यापत्यं पुमान् पौलस्त्यः, पौलस्त्यस्य = रावणस्य बलात्कारः प्रसभमिति पौलस्त्यबलात्कारः । शापेन- नलकूबरस्याक्रोशेन यन्त्रिता:-प्रतिबद्धाः, पौलरत्यबलात्कारेण-रावणबलात्कारेण ये कचग्रहाःकेशाकर्षाः, तै: शापयन्त्रितपौलस्त्यबलात्कारकचाहैः न दूषिताः प्रदूषितारतान् , प्रदूषितान्-अस्पृष्टान् ( रम्भया सह प्रसह्य सम्भोगात् क्रुद्धेन कुबेरपुत्रेण, स्त्रीणां बलात्संभोगेन ते मस्तकं शतधा भिन्नं भविष्यतीति रावणः शप्तः, अतः बन्दीकृताः स्वर्गागना प्रदूषिताः आसन्निति भावः ) स्वर्गस्य वन्द्यः स्वर्गवन्यस्तासां स्वर्गवन्दीनाम्-स्वर्गस्त्रीणां, वेणीनां प्रवेणीनां= कचबन्धानां बन्धाः= ग्रन्थयस्तान् वेणीबन्धान् मोक्ष्यध्वे-शिथिलयिष्यथ । समासः-पौलस्त्यस्य बलात्कारः पौलस्त्यबलात्कारः, पौलस्त्यबलात्कारेण ये कचानां ग्रहाः, इति पौलस्त्यबलात्कारकचग्रहाः, शापेन यन्त्रिताः च ते पौलस्त्यबलात्कारकचग्रहास्तः शापयन्त्रितपौलस्त्यबलात्कारकचाहैः । न दूषिताः प्रदूषिता
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy