SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ ३५६ दशमः सर्गः (पा. ३।२।१८८ ) इत्यादिना वर्तमाने क्तः । “क्तस्य च वर्तमाने' (पा. २।३।६७) इति षष्ठी ॥३९॥ अन्वयः- "किंच" अकामोपनतेन एनसा साधोः हृदयम् इव, तेन तप्यमानं भुवनत्रयं च मे विदितम् , ( अस्तीति शेषः )। व्याख्या-अकामेन अनिच्छया उपनतं = प्राप्तम् आगतमिति अकामोपनतं अकामोपनतेन एति-गच्छति प्रायश्चित्तमनेनेति एनस्तेन एनसा-पापेन साध्नोति धर्ममिति साधुस्तस्य साधोः- सज्जनस्य हृदयं-चित्तम् इव यथा तेन- रक्षसा रावणेन तप्यमानं-संतप्यमानं पीडितमित्यर्थः, भवन्ति येषु तानि भुवनानि । भुवनानां त्रयमिति भुवनत्रयं लोकत्रयं च मे मम विदितं ज्ञातम् । मया सर्वमेतत् ज्ञायते इत्यर्थः। समासः-न कामः अकामः अकामेन उपनतमिति अकामोपनतं तेन प्रकामोपनतेन । भुवनानां त्रयमिति भुवनत्रयम् । हिन्दी-और अनिच्छापूर्वक ( अनजाने ) किये हुए पाप से सजन के मन की तरह उस राक्षस के द्वारा संतप्त पीडित तीनों भुवनों को मैं जानता हूं ॥३९॥ कार्येषु चै कार्यत्वादभ्योऽस्मि न वज्रिणा । स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते ।।४।। संज-कार्येष्विति । किंच, एककार्यत्वादावयोरेककार्यत्वाद्धतोः । कार्येषु कर्तव्येषु विषयेषु वज्रिणेन्द्रेण अभ्यर्थ्यः 'इदं कुरु'इति प्रार्थनीयो नास्मि । तथा हि- वातः ‘स्वयमेवाग्नेः सारथ्यं साहाय्यं प्रतिपद्यते प्राप्नोति । न तु वह्निप्रार्थनया इत्येवकारार्थः । प्रेक्षावतां हि स्वार्थे स्वत एव प्रवृत्तिः, न तु परप्रार्थनया। स्वार्थश्वायं ममापीत्यर्थः ॥४०॥ अन्वयः- एककार्यत्वात् कार्येषु वज्रिणा अभ्यर्थ्यः न अस्मि, हिं वातः स्वयम् एव अग्नेः सारथ्यम् प्रतिपद्यते । व्याख्या-"किञ्च" एकं-अभिन्न कार्य-कर्तव्यं ययोस्तौ एककार्यो, तयोः भावः एककार्यत्वं तस्मात् एककार्यत्वात् हेतो', कार्येषु- कर्तव्यार्थेषु वज्रः-कुलिशम् अस्यास्तीति वजी तेन वज्रिणा--इन्द्रेण अभ्यर्थितुं योग्यः अभ्यर्थ्य:-प्रार्थनीयः नास्मि=न भवामि, मम देवराजस्य च लोकपालनरूपमेकमेव कर्तव्यं वर्तते
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy