SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये अन्वयः-योगिनः अभ्यासनिगृहीतेन मनसा हृदयाश्रयं ज्योतिर्मयम् त्वां विमुक्तये विचिन्वन्ति । व्याख्या-योगः अस्ति येषु ते योगिनः = ध्यानिनः = समाधिमन्तः, अभ्यासः-अभ्यसनम् -- प्रावृत्तिः चित्तस्य एकस्मिन् आभ्यन्तरे आलम्बने पुनः पुत स्थापनमिति यावत् । अभ्यासेन-अभ्यसनेन, निगृहीतं वशीकृतं विषयान्तरेभ्यः निगृह्याभ्यन्तरे स्थापितमित्यर्थः तेन अभ्यासनिगृहीतेन मन्यतेऽनेनेति मनस्तेन मनसा-चित्तेन हृदयं = हृत् प्राश्रयं-स्थानं यस्य तत् हृदयाश्रयं = हृत्कमलस्थं ज्योतते इति ज्योतिः तेजः, ज्योतिः प्रकृतमुच्यते यस्मिन् तम् इति ज्योतिर्मयं - तेजःप्रचुरं त्वां भगवन्तं विष्णुं विमुक्तये -अपवर्गाय विचिन्वन्ति- अन्विष्यन्ति योगसमाधिना ध्यायन्तीत्यर्थः । समासः-अभ्यासेन निगृहीतमिति अभ्यासनिगृहीतं तेन अभ्यासनिगृहीतेन । हृदयम् आश्रयं यस्य तत् हृदयाश्रयम् । हिन्दी-"ध्यान समाधिरूप" अभ्यास से वश में किये गये मन से हृदय कमल में बैठे हुए, ज्योति:स्वरूप ( प्रकाशरूप ) आपका ही योगिजन मोक्ष के लिये अन्वेषण करते हैं । अर्थात् आपका हो ध्यान करते हैं ।।२३।। अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । स्वपतो जागरूकस्य याथाय वेद कस्तव ? ॥२५।। संजी०-अजस्येति । न जायत इत्यजः । 'अन्येष्वपि दृश्यते' (पा. ३।२।१०१ ) इति डप्रत्ययः । तस्याजस्य जन्म गृह्णतः मत्स्यादिरूपेण जायमानस्य । निरीहस्य चेष्टारहितस्यापि हतद्विषः शत्रुघातिनो जागरूकस्य सर्वसाक्षितया नित्यप्रबुद्धस्यापि स्वपतो योगनिद्रामनुभवतः । इत्थं विरुद्धचेष्टस्य तव याथार्थ्यं को वेद वेत्ति ? 'विदो लटो वा' (पा. ३।४।८३ ) इति णलादेशः ।।२४।। अन्वयः-अजस्य "अपि” जन्म गृह्णतः निरीहस्य “अपि” हतद्विषः जागरूकस्य "अपि'' स्वपतः तव याथाय कः वेद । व्याख्या-न जायते इति अजस्तस्य अजस्य जन्मरहितस्यापि, जननं जन्म= उत्पत्तिं गृह्णातीति गृह्णन् तस्य गृह्णतः स्वीकुर्वतः मत्स्यकच्छपादिरूपेण जायमानस्ये. त्यर्थः, निर्गता ईहा=चेष्टा यस्मात् तस्य निरीहस्य=इच्छारहितस्यापि, द्विषन्तीति
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy