SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ ३३२ रघुवंशमहाकाव्ये तस्मिन् आसीनस्तं भोगिभोगासनासीनम् । तस्य फणानां मण्डलं तत्फणामण्डलं, तस्मिन् उदर्चिषः मणयस्तैः द्योतितः विग्रहः यस्य स तं तत्फणामण्डलोदर्चिमणिद्योतितविग्रहम् । हिन्दी-स्वर्ग के देवताओं ने शेषनाग के शरीर रूपी आसन पर बैठे उस विष्णु को देखा । शेषनाग के फणों के समूह में चमकती हुई मणियों से जिस का शरीर देदीप्यमान हो रहा है ॥७॥ श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले । अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे ॥८॥ संजी०- श्रिय इति । कीदृशं विष्णुम् ? पद्मे निषण्णाया उपविष्टायाः श्रियः क्षौमान्तरिता दुकूलव्यवहिता मेखला यस्य तस्मिन् । आस्तीर्णौ करपल्लवौ पाणिपल्लवौ यस्मिन् । विशेषणद्वयेनापि चरणयोः सौकुमार्यात्कटिमेखलास्पर्शासहत्वं सूच्यते । तस्मिन्नके निक्षिप्तौ चरणौ येन तम् ॥८॥ अन्वयः- पद्मनिषण्णायाः श्रियः क्षोमान्तरित मेखले, प्रास्ताण करपल्लवे, अङ्के निक्षिप्तचरणम् विष्णुं ददृशुरिति पूर्वेणान्वयः । व्याख्या--पद्म = कमले निषण्णा-समुपविष्टा इति पद्मनिषण्णा तस्याः पद्मनिषण्णायाः श्रयति हरिमिति श्रीस्तस्याः श्रियः-लक्ष्म्याः क्षुमायाः विकारः सोमम् अतसीवल्कलवस्त्रम् । क्षौमेण-वाल्कलेन कौशेयवस्त्रणेत्यर्थः, अन्तरिता- आच्छादिता मेखला-काञ्ची यस्य सः क्षौमान्तरितमेखलः तस्मिन् क्षौमान्तरितमेखले । आस्तीणी- आच्छादितौ करौ-हस्तौ पल्लवी-किसलये इव यस्मिन्, स आस्तीर्णकरपल्लवः अङके -क्रोडे निक्षिप्तौ-स्थापितौ चरणौ पादौ येन स तं निक्षिप्तचरणम् । विष्णुं ददृशुरिति पूर्वेणान्वयः । ___ समासः-पद्मे निषण्णा पद्मनिषण्णा, तस्याः पद्मनिषण्णायाः । क्षौमेण अन्तरिता मेखला यस्य सः, तस्मिन् क्षौमान्तरितमेखले। करौ पल्लवी इवेति करपल्लवी, आस्तीर्णो करपल्लवौ यस्मिन् सः, तस्मिन् आस्तीर्णकरपल्लवे । निक्षिप्तौ चरणौ येन स तं निक्षिप्तचरणम् । हिन्दी-कमल के ऊपर बैठी हुई लक्ष्मी की उस गोद में चरण रखे हुवे विष्णु को देखा, जिसकी मेखला ( करधनी ) साड़ी से दबी हुई है। "और
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy