SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ २१ नवमः सर्गः ३२१ प्राप्स्यति प्राप्स्यति । इत्युक्तवन्तम् । आक्रान्तः पादाहतः पूर्वमाक्रान्तपूर्वः। सुप्सु. पेति समासः । तम् । प्रथममपकृतमित्यर्थः । मुक्तविषमपकारात्पश्चादुत्सृष्टविषं भुजंगमिव स्थितं तं वृद्धं प्रति प्रथमापराद्धः प्रथमापराधी। कर्तरि क्तः । इदं च सहने कारणमुक्तम् । शापदानात्पश्चादपराधी कोसलपतिर्दशरथः प्रोवाच ॥७९॥ अन्वयः-- "हे राजन्” भवान् अपि अन्त्य दयाल अहम् इव पुत्रशोकात् दिष्टान्तम् आप्स्यति इति उक्तवन्तम् आक्रान्तपूर्व मुक्तविर्ष भुजंगम इव तं "प्रति" प्रथमापराद्धः कोसलपतिः प्रोवाच । व्याख्या-हे राजन् ! भवान् दशरथः अपिः समुच्चये, अन्ते भवम् अन्त्यं तस्मिन् अन्त्ये चतुर्थे वयसि = वाक्ये अहम् -मल्लक्षणजन इव- यथा पुत्रस्य-सुतस्य शोकः- सन्तापस्तस्मात् पुत्रशोकात् दिष्टस्य-कालस्य अन्तः अवसानमिति दिष्टान्तस्तं दिष्टान्तम् मृत्युमित्यर्थः प्राप्स्यति-प्राप्स्यति, यथाहं पुत्रशोकात् म्रिये, तथा त्वमपि मरिष्यसे इत्यर्थः, इति - एवम् उक्तवन्तं - कथितवन्तम् आक्रान्तः= पादाहतः पूर्व प्रथममिति आक्रान्तपूर्वस्तम् अाक्रान्तपूर्व = प्रथमं कृतापराधमित्यर्थः मुक्तं-त्यक्तं विषं-गरलं येन स तं मुक्तविषम् उत्सृष्टगरलं भुजेन-कौटिल्येन गच्छतीति भुजंगस्तं भुजंगम् सर्पम् इव-यथा स्थितं तं वृद्धं मुनि प्रति प्रथम-पूर्वम् अपराद्धः-अपराधी इति प्रथमापराद्धः कोसलानां पतिः कोसलपतिः= दशरथः शापदानानन्तरं मुनि प्रोवाच-प्रोक्तवान् । समासः-दिष्टस्य अन्तस्तं दिष्टान्तम् । पुत्रस्य शोकस्तस्मात् पुत्रशोकात् । अाक्रान्तः पूर्व यः सः आक्रान्तपूर्वस्तम् आक्रान्तपूर्वम् । मुक्तं विषं येन स तं मुक्तविषम् । कोसलानां पति: कोसलपतिः। प्रथमम् अपराद्धः प्रथमापराद्धः । ___हिन्दी-हे राजन् आप भी वृद्धावस्था ( बुढ़ापे ) में मेरी तरह ही पुत्र के शोक सन्ताप से मृत्यु को प्राप्त करोगे ( मरोगे ) इस प्रकार कहने वाले तथा पहले पैर से दबे हुवे फिर जहर को उगलनेवाले सांप के समान "स्थिर खड़े" उस वृद्ध मुनि से पहले पहल अपराध करने वाले राजा बोले ॥७९॥ शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयम् । कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननी ज्वलनः करोति ॥८॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy