SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं तापादन्तःशल्य इवासीक्षितिपोऽपि ॥७॥ संजी०-हा तातेति । हेत्यातौ । तातो जनकः । 'हा विषादशुगर्तिषु' इति, 'तातस्तु जनकः पिता' इति चामरः, हा तातेति क्रन्दितं क्रोशनमाकर्ण्य । विषण्णो भग्नोत्साहः सत् । तस्य ऋन्दितस्य वेतसैगूढं छन्नम् । प्रभवत्यस्मादिति प्रभवः कारणम् । तमन्विष्यञ्छल्येन शरेण प्रोतं स्यूतम् । 'शल्यं शङ्को शरे वंशे' इति विश्वः । सकुम्भं मुनिपुत्रं प्रेक्ष्य स क्षितिपोऽपि तापादुखादन्तः शल्यं यस्य सोऽन्तःशल्य इवासीत् । मत्तमयूरं वृत्तम् ॥७५॥ . अन्वयः-हा तात ! इति क्रन्दितम् श्राकर्ण्य विषण्णः सन् , तस्य वेतसगूढं प्रभवम् अन्विष्यन् शल्यप्रोतं सकुम्भं मुनिपुत्रं प्रेक्ष्य सः क्षितिपः अपि तापात् अन्तःशल्य इव आसीत् । व्याख्या-हा-दुःखे, तात-जनक! इति-इत्थं क्रन्दितं-रुदितम् आकर्ण्य - श्रुत्वा विषण्णः हतोत्साहः खिन्नः सन् तस्य-क्रन्दनस्य, वेतसः वानीरैः गूढः= छन्नस्तं वेतसगूढम् प्रभवत्यस्मादिति प्रभवस्तं प्रभवं-कारणम् अन्विष्यन् अनुसंदधानः शल्येन-बाणेन प्रोतः विद्धस्तं शल्यप्रोतं कुम्भेन-कलशेन सहितः सकुम्भस्तं सकुम्भं गृहीतकलशं मुनेः पुत्रस्तं मुनिपुत्रं-श्रवणकुमारं प्रेक्ष्य विलोक्य सः प्रसिद्धः क्षिति-भुवं पाति रक्षतीति क्षितिपः-दशरथः तापात् सन्तापात्= दुःखादित्यर्थः अन्तः हृदये शल्य-शंकुः यस्य सः अन्तःशल्य इव-यथा आसीत्-जातः । ममासः–वेतसैः गूढस्तं वेतसगूढम् । शल्येन प्रोतः शल्यप्रोतस्तं शल्यप्रोतम् । कुम्भेन सहितः सकुम्भस्तं सकुम्भम् । मुनेः पुत्रस्तं मुनिपुत्रम् । अन्तः शल्यं यस्यासी मन्तःशल्यः। हिन्दी-"हाय पिताजी !" इस प्रकार के करुण क्रन्दन ( रोने ) को सुनकर दुःखित होकर, बेंत के झाड़ों से छिपे हुए, उस चिल्लाने के कारण को खोजते हुए ( राजा ने ) बाण से विधा हुआ तथा घड़ा लिये मुनिपुत्र श्रवणकुमार को देखकर वह भूपाल दुःख के कारण ऐसा हो गया मानो इनको ही हृदय में बाण लगा हो ॥७५।।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy