SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः समासः--तुरगस्य समीपं तस्मात् तुरगसमोपात् । रुचिरः कलापो यस्य स रुचिरकलापस्तं रुचिरकलापम् । चित्रैः माल्यैः अनुकीर्णः चित्रमाल्यानुकीर्णस्तस्मिन् चित्रमाल्यानुकोण । रतौ विगलितः बन्धो यस्य स तस्मिन् रतिविगलितबन्धे । केशानां पाशः तस्मिन् केशपाशे । गतं मनः यस्य स गतमनस्कः । हिन्दी-उस राजा दशरथ ने, घोड़े के पास से फड़फड़ाकर उड़ते हुए भी,, तथा चमकीले सुन्दर पंखवाले मोर को अपने बाण का लक्ष्य नहीं किया "क्योंकि" नाना रंग बिरंगे पुष्पों की मालाओं से गुथे हुए अपनी प्रियाओं के जूड़े में उनका मन तुरन्त चला गया था। अर्थात् प्रिया के जूड़े का स्मरण हो जाने से उस जूड़े के समान सुन्दर पंख वाले मोरों को नहीं मारा ॥६७॥ तम्य कर्कशविहारसंभवं स्वेदमाननविलग्नजालकम् । आचचाम सतपारशीकरो भिन्न पल्लवपुट! वनानिलः ।।६८।। तस्येति । कर्कशविहारादतिव्यायामात्संभवो यस्य तम् । प्रानने विलग्नजालकं बद्धकदम्बकं तस्य नृपस्य स्वेदम् । सतुषारशीकरः शिशिराम्बुकरणसहितः । भिन्ना निर्दलिताः पल्लवानां पुटाः कोशा येन सः । वनानिल आचचाम । जहारेत्यर्थः । रथोद्धतावृत्तमेतत् ॥१८॥ अन्वयः-कर्कशविहारसम्भव आननविलग्नजालकम् तस्य स्वेदम् सतुषारशीकरः भिन्नपल्लवपुटः वनानिल आचचाम । व्याख्या-कर्कशः = कठोरः चासो धिहारः व्यायामः इति कर्कशविहारः कर्कशविहारात् सम्भवः = उत्पत्तिर्यस्य स तं कर्कशविहारसम्भवम्, प्रानने=मुखे विलग्नं-बद्धं जालकं कदम्बकं यस्य स तम् आननविलग्नजालकम् तस्य-राज्ञः दशरथस्य स्विद्यतेऽनेन अङ्गमिति स्वेदस्तं धर्मम् तुषाराणां हिमानां शीकरा:= अम्बुकणाः इति तुषारशीकरास्तै: सहितः सतुषारशीकरः पल्लवानां = पत्राणां पुटा:-कोशाः इति पल्लवपुटाः । भिन्नाः= निर्दलिताः पल्लवपुटाः येन स भिन्नपल्लवपुटः वनस्य अरण्यस्य अनिलः वायुः वनानिलः आचचाम अपिबत् । समासः --कर्कशश्चासौ विहारश्चेति कर्कशविहारस्तरमात् कर्कशविहारात् सम्भवो यस्य स तं कर्कशविहारसंभवम् । आनने विलग्नं जालकं यस्य स तम्
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy