SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये जन्म यस्य असो आत्मजन्मा आत्मजन्मनि समुत्सुकः आत्मजन्मसमुत्सुकः । विलम्बितम् फलम येषां ते विलम्बितफलाः, तैः विलम्बितफलैः । अभि०-सुदक्षिणायां स्वभार्यायां पुत्रोत्पत्तिमभिलषन्,दिलीपः बहूनि दिनानि यापयामास । हिन्दी--राजा दिलीप ने, अपने मनोनुकूल सुदक्षिणा में पुत्रोत्पत्ति की अभिलाषा से प्रतीक्षा करते हुए बहुत समय बिताया ॥३३॥ संतानार्थाय विधये स्वभुजादवतारिता। तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ॥३४।। सञ्जीविनी-तेन दिलीपेन । संतानोऽर्थः प्रयोजनं यस्य तस्मै संतानार्थाय विधयेऽनुष्ठानाय । स्वभुजादवतारितावरोपिता जगतो लोकस्य गुर्वी धूर्भा। सचिवेषु निचिक्षिपे निहिता ॥३४॥ अन्वयः-सन्तानार्थाय, विषये, स्वभुजादवतारिता, जगतः, गुरू, धूः, सचिवेषु, निचिमिपे। वाच्य०--सः, सन्तानार्थाय, विधये, स्वभुजात्, अवतारिता, जगता गर्वी, धुरं सचिवेषु, निचिक्षेप । व्याख्या--तेन = राज्ञा दिलीपेन, सन्तान:=पुत्रः, अर्थः = योजनं यस्यासो सन्तानार्थस्तस्मै, सन्तानार्थाय, विधये = अनुष्ठानाय, स्वस्य भुजः, स्वभुजस्तस्मात् स्वभुजात् = निजबाहोः, अवतारिता=अवरोपिता, जगतः=संसारस्य, गुर्वी = दुर्भरा, 'गुरुस्तु गीष्पती श्रेष्ठे गुरौ पितरि दुर्भरे'। धः=भारः, प्रजापालनरूपः कार्यभार इत्यर्थः, सचिवेषु = मन्त्रिष, निचिक्षिपे=निहिता, स्थापितेत्यर्थः। समा०-सन्तानः अर्थः यस्य असौ सन्तानार्थः तस्मै सन्तानार्थाय । स्वस्य भुजः स्वभुजा तस्मात् स्वभुजात् । बमि०-पुत्रप्राप्त्यर्थमनुष्ठानं कतुराज्ञा दिलीपेन राज्यभारोऽमात्येषु निहितः। हिन्दी--पुत्र की प्राप्ति के निमित्त अनुष्ठान करने के लिये राजा दिलीप ने, अपनी भुजाओं से उतारा हुआ प्रजापालनरूप राज्य भार मंत्रियों के ऊपर रख दिया, अर्थात् कार्यभार मंत्रियों को सौंप दिया ॥३४।। अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया । तौ दम्पती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ।।३५॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy