SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ २६८ रघुवंशमहाकाव्ये संजी०-तस्येति । त्रासाद्भयादतिमात्रचटुलैरत्यन्तचञ्चलैः सुनेत्रः प्रौढप्रियानयनविभ्रमचेष्टितानि प्रगल्भकान्ताविलोचनविलासव्यापारान्सादृश्यात्स्मरतः । अपरे. ध्वपि मृगेषु शरान्मुमुक्षोर्मोक्तुमिच्छोस्तस्य नृपस्य निबिडो दृढोऽपि मुष्टिः कर्णान्तमेत्य प्राप्य बिभिदे। स्वयमेव भिद्यते स्म । भिदेः कर्मकर्तरि लिट। कामिनस्तस्य प्रियाविभ्रमस्मृतिजनितकृपातिरेकान्मुष्टिभेदः, न त्वनैपुण्यादिति तात्पर्यार्थः ॥५८॥ अन्वयः–त्रासातिमात्रचटुलैः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि स्मरतः अपरेषु मृगेषु शरान् मुमुक्षोः तस्य निबिडः अपि मुष्टिः कर्णान्तम् एत्य बिभिदे। व्याख्या-त्रासात्-भयात् अतिमात्रम् - अत्यन्तं चट्रलानि चञ्चलानि तैः त्रासातिमात्रचटुलैः, सु-शोभनानि च तानि नेत्राणि-नयनानि तैः सुनेत्रः । प्रौढाः-प्रगल्भाश्च ताः प्रियाः कान्ताः, स्वस्त्रिय इत्यर्थः, इति प्रौढप्रियाः। प्रौढप्रियाणां नयनानि-नेत्राणि, तेषां विभ्रमाः = विलासाः, प्रौढप्रियानयनविभ्रमास्तेषां चेष्टितानि-व्यापारान् , इति प्रौढप्रियानयनविभ्रमचेष्टितानि । स्मरतः स्मरणं कुर्वतः हरिणीनां नेत्रविलासानां व्यापारान् विलोक्य राज्ञः स्वप्रियाणां नयनविभ्रमचेष्टानां स्मरणं जातमित्यर्थः । अपरेषु अन्येषु मृगेषु= हरिणेषु शरान् बाणान् मोक्तुमिच्छति इति मुमुक्षुस्तस्य मुमुक्षोः मोक्तुमिच्छोः तस्य -राज्ञो दशरथस्य निबिडः-दृढः अपि मुष्टिः-मुष्टिबन्धः । अतति अन्तति वा अन्तः कर्णस्य-श्रोत्रस्य अन्तः निकटमिति कर्णान्तस्तं कर्णान्तम्-श्रोत्रप्रान्तम् एत्य प्राप्य बिभिदे-भिद्यते स्म । स्वप्रियाविभ्रमस्य स्मरणेन दशरथस्य हृदयं करुणा संजातं तेन मुष्टिबन्धस्य स्वयं भेद इत्यर्थः । समासः-त्रासात् अतिमात्रं चटुलानीति त्रासातिमात्रचटुलानि तैः त्रासातिमात्रचटुलैः। शोभानि नेत्राणि सुनयनानि तैः सुनेत्रः । प्रौढाश्च ताः प्रियाः प्रौढप्रियास्तासां नयनानि तेषां विभ्रमास्तेषां चेष्टितानि, तानि प्रौढप्रियानयनविभ्रमचेष्टितानि । कर्णस्यान्तस्तं कर्णान्तम् । हिन्दी-भय से व्याकुल ( चंचल ) हरिणियों की सुन्दर आँखों से (अर्थात् उन्हें देखकर ) अपनी प्रगल्भ प्रियतमाओं को स्मरण करने वाले, तथा दूसरे मृगों पर भी बाण छोड़ने की इच्छा करने वाले राजा की मजबूत बंधी हुई मुटठी (चुटकी ) कान तक प्राकर स्वयं खुल गई। अर्थात् मृगों की चंचल डरे हुए
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy