SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ २५१ नवमः सर्गः यजमानाय प्रयच्छति' इति वचनात् । कुशमयी मेखला यस्यास्तां कुशमेखलाम् । 'शरमयी मौजी वा मेखला । तया यजमानं दीक्षयतीति विधानात् । प्रकृते कुशग्रहणं क्वचित्प्रतिनिधिदर्शनात्कृतम् । यतगिरं वाचंयमम् । 'वाचं यच्छति' इति श्रुतेः । मृगशृङ्गं परिग्रहः कण्डूयनसाधनं यस्यास्ताम् 'कृष्णविषाणया। कण्डयते' इति श्रुतेः । अध्वरदीक्षितां संस्कारविशेषयुक्तां तनुं दाशरथीमधिवसन्नधितिष्ठन्सन् । असमा भासो दीप्तयो यस्मिन्कर्मणि तद्यथा तथा अभासयद्भासयति स्म ॥२१॥ अन्वयः-ईश्वरः अजिनदण्डभृतं कुशमेखलां यतगिरं मृगभंगपरिग्रहाम् अध्वरदीक्षितां तनुम् अधिवसन् असमभासं यथा स्यात्तथा अभासयत् । व्याख्या-ईशितुं शीलमस्येति ईश्वरः भगवान् अष्टमूर्तिः शिवः अजिनं= कृष्णाजिनं, मृगचर्म इत्यर्थः, दण्डम् औदुम्बरं च बिभर्ति इति अजिनदण्डभृत् ताम् अजिनदण्डभृतम् । कौ-पृथिव्यां शेते तिष्ठतीति कुशः । । कु-पापं श्यति-तनूकरोतीति वा कुशः, कुशमयी मेखला-काञ्ची यस्याः सा तां कुशमेखलाम् । यता गीर्यस्याः सा तां यतगिरम्=वाचंयमाम्, मौनव्रतीत्यर्थः मृगस्य= हरिणस्य कृष्णमृगस्येत्यर्थः शृङ्ग-विषाणमिति मृगशृंगम् । मृगशृंगं परिग्रहः= कण्डयनसाधनं यस्याः सा तां मृगशृंगपरिग्रहाम् । अध्वानं रातीति अध्वरः । दीक्षा संजाता यस्याः सा दीक्षिता। अध्वरे यज्ञे दीक्षिता= संस्कारयुक्ता इति अध्वरदीक्षिता ताम् अध्वरदीक्षितां तनुं शरीरं दाशरथीमित्यर्थः, अधिवसन्-अधितिष्ठन् सन् न समा असमा असमा असदृशी भाः कान्तिः यस्मिन् कर्मणि तत् असमभासं यथा स्यात्तथा अभासयत् भासयति स्म । समासः-अजिनं च दण्डश्चेति अजिनदण्डौ, अजिनदण्डौ बिभर्ति इति अजिनदण्डभृत् ताम् अजिनदण्डभृतम् । कुशानां मेखला यस्याः सा तां कुशमेखलाम् । यता गीर्यस्याः सा तां यतगिरम् । मृगस्य शृंगं, मृगशृंगं परिग्रहो यस्याः सा तां मृगशृंगपरिग्रहाम् । अध्वरे दीक्षिता ताम् अध्वरदीक्षिताम् । असमा भाः यस्मिन् कमणि तत् यथा भवति तथा असमाभासम् । हिन्दी-मृगछाला और दण्ड को धारण किये, कुश की मेखला ( करधनी ) पहने मौन तथा मृग के सींग को लिये हुए यज्ञ की दीक्षा में बैठे महाराजदशरथ के शरीर में निवास करते हुए “भगवान् अष्टमूर्ति" शिव ने उनको ऐसा
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy