SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः २५३ अन्वयः-अनुदितान्यसितातपवारणः अनलसोमद्युतिः श्रियं रन्ध्रचलाम् अवेक्ष्य सः मण्डलनाभिताम उपगतः अपि अनलसः अभूत् । व्याख्या-आतपस्य वारणं येन तत् आतपवारणम् । न उदितमिति अनुदितम् । अनुदितम् अनुच्छ्रितम् अन्यत्-अपरं-स्वच्छत्रातिरिक्तमित्यर्थः सितंश्वेतम् आतपवारणं-छत्रं यस्य सः अनुदितान्यसितातपवारणः । अनिति अनेनेति अनलः = वह्निः सोमः = चन्द्रः अनयोः द्वन्द्वः अनलसोमौ तयोः अनलसोमयोः= वह्निचन्द्रमसोः समे = तुल्ये द्यती-तेजःकान्ती यस्य सः अनलसोमद्युतिः श्रियं= राज्यलक्ष्मीम् रन्ध्र क्षिद्रे अन्यायालस्यादिरूपे छले चला-चञ्चला तां रन्ध्रचलाम् अवेक्ष्य-ज्ञात्वा । लक्ष्मीः प्रमादादि विलोक्य केनापि छलेन परित्यजतीति ज्ञात्वेत्यर्थः । सः राजा दशरथः मण्डलस्य-द्वादशराजकस्य नाभिः-मुख्यमहीपतिरिति मण्डलनाभिः। तस्य भावस्तत्ता तां मण्डलनाभिताम् उपगतः प्राप्तः, अपि सम्राट सन्नपीत्यर्थः न लसतीति अलसः न अलसः अनलसः अप्रमत्तः सर्वथा जागरूक इत्यर्थः अभूत् आसीत् । समासः-न उदितम् अन्यत् सितम् आतपवारणं यस्य सः अनुदिता. न्यसितातपवारणः । अनलश्च सोमश्चेति अनलसोमौ अनलसोमयोः समे द्यती यस्य सोऽनलसोमद्युतिः । मण्डलस्य नाभिरिति मण्डलनाभिः, तस्य भावस्तत्ता तां मण्डलनाभिताम् । रन्ध्रे चला, तां रन्ध्रचलाम् । हिन्दी-जिसके मागे दूसरे राजाओं का श्वेतच्छत्र न उठ सकता ( नहीं लाया जा सकता ) ऐसे अग्नि व चन्द्र के समान तेजस्वी तथा सौम्यकान्ति वाले राजा ने, यह जानकर कि लक्ष्मी तो किसी भी बहाने से मनुष्य को छोड़ देती है । अतः बारह राजाओं के प्रधान राजा ( चक्रवर्ती ) होकर भी दशरथ सावधान हो रहे । अर्थात् आलस्य प्रमाद को छोड़कर जागरूक रहे ॥१५॥ तमपहाय ककुत्स्थकुलोद्भवं पुरुषमात्मभवं च पतिव्रता। नृपतिमन्यमसेवत देवता सकमला कमलाघवमर्थिषु ॥१६॥ संजी०-तमिति । पत्यो व्रतं नियमो यस्याः सा पतिव्रता सकमला कमलहस्ता देवता लक्ष्मीरर्थिषु विषयेऽलाघवं लघुत्वरहितम् । अपराङ मुखमित्यर्थः । ककुत्स्थकुलोद्भवं तं दशरथमात्मभवं पुरुषं विष्णु चापहाय त्यक्त्वा। अन्यं कं
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy