SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ २४२ रघुवंश महाकाव्ये जनः = लोकः पदं = वस्तु यत्र स जनपदस्तस्मिन् जनपदे-देशे गदतीति गदः = रोग: पदं = चरणं न श्रादधौ= = न स्थापितवान् न प्रचक्रामेत्यर्थः । सपत्नेभ्यः= शत्रुभ्यः = जातः- उत्पन्नः इति सपत्नजः अभिभवतीति अभिभवः तिरस्कारः कुतः=कस्मादेव सर्वथासंभावित एवेत्यर्थः, यत्र व्याधिरपि नागच्छति तत्र शत्रूपद्रवः सर्वथासंभव इति भावः 1 क्षितिः पृथिवी च फलवती प्रभूत् =श्रासीत् । समास:- - शमे रतः शमरतस्तस्मिन् शमरते । श्रमराणां तेज इव तेजो यस्य स तस्मिन् अमरतेजसि । अजस्य नन्दनस्तस्मिन् प्रजनन्दने । सपत्नेभ्यः जातः सपत्नजः । जनः पदं यत्र असौ जनपदस्तस्मिन् जनपदे । हिन्दी - शान्तिपरायण देवताओं के समान तेजस्वी और पराक्रमी अजपुत्र के राजा होने पर, देशमें रोग ने पैर नहीं रखा, तो फिर शत्रुनों के आक्रमण कहाँ से हों । अर्थात् असंभव है । और पृथिवी धनधान्य से पूर्ण हो गई ||४|| दशदिगन्तजिता ग्घुणा यथा श्रियमपुष्यदजेन ततः परम् । तमधिगम्य तथैव पुनर्बभौ न न महीनमहीनपराक्रमम् ॥ ५ ॥ संजी० - दशेति । मही । दशदिगन्ताञ्जितवानिति दशदिगन्तजित् । तेन रघुणा यथा श्रियं कान्तिमपुष्यत् । ततः परं रघोरनन्तरमजेन च यथा श्रियमपुष्यत् । तथैवाहीनपराक्रमं न हीनः पराक्रमो यस्य तमन्युनपराक्रमं तं दशरथमिनं स्वामिनमधिगम्य पुनतं बभाविति न । बभावेवेत्यर्थः । द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः ॥ ५ ॥ " अन्वयः - मही दशदिगन्तजिता रघुणा यथा श्रियम् अपुष्यत् ततः परम् जेन च यथा श्रियम् अपुष्यत्, तथा एव अहनिपराक्रमं तम इनम् अधिगम्य न बभौ इति न " किन्तु बभौ एवेत" | व्याख्या - मही- क्षितिः पृथिवी दश च ताः दिशः दिशदिशस्तासाम् दशदिशां - दशककुभाम् श्रन्ताः- अवसानानि इति दशदिगन्तास्तान् जयति - स्वाधीनीकरोतीति दशदिगन्तजित् तेन दशदिगन्तजिता रघुणा - दिलीपसूनुना यथा येन प्रकारेण श्रियं = कान्तिम् प्रपुष्यत् - पुपोष, ततः = तस्मात् रघोः परम् = अनन्तरम् प्रजेन = रघुपुत्रेण च यथा श्रियमपुष्यत्, तथैव - तेन प्रकारेणैव न हीनः : = न न्यूनः पराक्रमः=
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy