SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ २२४ रघुवंशमहाकाव्ये आक्रोशस्य निवृत्तिः = निवारणं समाप्तिरित्यर्थः, इति शापनिवृत्तिस्तस्याः कारणं = हेतुमिति शापनिवृत्तिकारणम् = स्वर्गीयकुसुमरूपम् उपलब्धवती =प्राप्तवती 'अतः' सा विवशा = आसन्नमरणा मृता इत्यर्थः । अभूदिति शेषः । ___ समास:-क्रथकैशिकानां वंशः इति क्रथकैशिकवंशस्तस्मिन् संभवो यस्याः सा क्रथकैशिकवंशसंभवा । शापस्य निवृत्तिरिति शापनिवृत्तिस्तस्याः कारणं तत् शापनिवृत्तिकारणम् । __हिन्दी-भोजराज के वंश में उत्पन्न हुई वह हरिणी अप्सरा तुम्हारी रानी होकर ( यहाँ रही ) और बहुत समय बीतने पर स्वर्ग से गिरे हुए शाप की समाप्ति के कारण को प्राप्त की, अतः विवश हुई। अर्थात् स्वर्ग से गिरे पुष्पों के दर्शन से शाप छूट गया, तब तुरन्त ही मर गई ॥२॥ तदलं तदपार्याचन्तया विपदुत्पत्तिमतामुपस्थिता । वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ।।८३॥ संजी०-तदिति । तत्तस्मात्तस्या अपायचिन्तयाऽलम् । तस्या मरणं न चिन्त्यमित्यर्थः । निषेधक्रियां प्रति करणत्वाञ्चिन्तयेति तृतीया। कुतो न चिन्त्यमत पाह-उत्पत्तिमतां जन्मवतां विपद्विपत्तिरुपस्थिता सिद्धा । जातस्य हि ध्रवो मृत्युरित्यर्थः । तथापि कलत्ररहितस्य किं जीवितेन तत्राह-त्वयेयं वसुधा भूमिरवेक्ष्यतां पाल्यताम् । हि यस्मान्नृपा वसुमत्या पृथिव्या कलत्रिणः कलत्रवन्तः । अतो न शोचितव्यमित्यर्थः ।।८३॥ अन्वयः-तत् तदपायचिन्तया अलम, उत्पत्तिमतां विपत् उपस्थिता, इयं वसुधा अवेक्ष्यतां, हि नृपाः वसुमत्या कलत्रिणः । व्याख्या-तत्-तस्मात्कारणात् चिन्तनं चिन्ता, तस्याः इन्दुमत्याः अपायस्य = नाशस्य चिन्ता-स्मरणमिति तदपायचिन्ता तया तदपायचिन्तया अलम् = न कर्तव्यम्, इन्दुमतीमरणं न स्मरणीयमित्यर्थः । कस्मान्न चिन्तनीयमित्याहउत्पत्तिरस्ति येषान्ते उत्पत्तिमन्तस्तेषाम् उत्पत्तिमतां-जन्मवतां विपदनं विपद् विपद्यतेऽनया वा इति विपत्-विपत्तिः मरणमित्यर्थः उपस्थिता सिद्धा अवश्यंभाविनी। ननु तथापि प्रियारहितस्य जीवितेन किमित्याह त्वया
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy