SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः २०३ चञ्चलम् ईक्षितम् ईक्षणमवलोकनम् । पुनातीति पवनः पवनेन वायुना आधूताः= ईषत् कम्पिता: लता: व्रतत्यस्तासु पवनाधूतलतासु विभ्रमाः-विलासाः, अमी पूर्वोक्ताः मधुरभाषणादयः गुणाः, एषु कोकिलादिषु इति शेषः, तिसृषु अवस्थासु, त्रयो ब्रह्मविष्णुरुद्राः वा दीव्यन्त्यत्र स त्रिदिवः त्रिविधो दीव्यति व्यवहरति प्रकाशते वा त्रिदिवः । त्रिदिवे-स्वर्गे उत्सुका-उत्कण्ठिता तया त्रिदिवोत्सुकया तत्र गन्तुमुत्सुकया इत्यर्थी, अपि त्वया = इन्दुमत्या माम् अजम् वियोगासहम् अवेक्ष्य=विचार्य सत्यं निश्चितं निहिता: मजीवनाय स्थापिताः, तु किन्तु तव भवत्याः विरहे वियोगे गुर्वी- महती व्यथा पीडा यस्य तद् गुरुव्यथम् मे मम हरति ह्रियते वा हृदयं=मनः अवलम्बितुम् = संस्थापयितुं न क्षमाः नहि समर्थाः। ते गुणास्तु तव संगमे एवानन्ददायकास्त्वद्विरहे तु प्राणहारका एवेत्यर्थः । समासः-अन्यैः भृतास्तासु अन्यभृतासु । कलाः हंस्यस्तासु कलहंसीषु । मदेनालसं मदालसम् । पवनेन आधूताः इति पवनाधूताः, पवनाधूताश्च ताः लतास्तासु पवनाधूतलतासु । त्रिदिवे उत्सुका तया त्रिदिवोत्सुकया। गुर्वी व्यथा यस्य तत् गुरुव्यथम् । हिन्दी-कोयलों में अपना मधुर वचन राजहंसियों में अपना मन्द-मन्द गमन, तथा हरणियों में अपनी चञ्चल चितवन और वायु से जरा हिलती हुई लताओं में चुलबुलापन, ये सब अपने गुण, स्वर्ग जाने की उत्कण्ठावाली तुमने, मुझे अपने वियोग की व्यथा को सहन करने में असमर्थ जानकर ही कोयल आदि में रख दिये हैं। किन्तु तुम्हारे विरह में अत्यन्त दुःखी मेरे हृदय को बहलाने में ये सब समर्थ नहीं हो सकते हैं । अर्थात् वे सब गुण तो तुम्हारे साथ ही सुख देने वाले थे और अब वियोग में तो मेरे प्राणों को ही ले रहे हैं ॥५९-६०॥ मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ । अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसांप्रतम् ॥६१॥ संजी०-मिथुनमिति । ननु हे प्रिये ! सहकारस्तरुविशेषः फलिनी प्रियंगुलता. चेमौ त्वया मिथुनं परिकल्पितं मिथुनत्वेनाभ्यमानि । अनयोः फलिनीसहकारयोविवाहसत्क्रियां विवाहमङ्गलमविधायाकृत्वा गम्यत इत्यसांप्रतमयुक्तम् । मातृहीनानां न किंचित्सुखमस्तीति भावः ॥६१॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy