SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ १८२ रघुवंशमहाकाव्ये हिन्दी-"वह माला तो गिर गई किन्तु" पुष्पों का अनुसरण करने वाले भौंरों से घिरी हुई नारद मुनि की वीणा ऐसी देखी गई मानो वायु के तिरस्कार से उत्पन्न और कजल मिले आंसु बहा रही हो ॥३५॥ अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् । नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितिम् ।।३६।। संजी०–अभिभूयेति । साऽमरनग्दिव्यमाला । मधुगन्धयोर्मकरन्दसौरभयोरतिशयेनाधिक्येन । वीरुधां लतानाम् । 'लता प्रतानिनी वीरुत्' इत्यमरः । ऋतोः प्राप्तामार्तवीमृतुसंबन्धिनी विभूति समृद्धिमभिभूय तिरस्कृत्य नृपतेरजस्य दयिताया इन्दुमत्या उर्वोर्विशालयोः स्तनयोये कोटी चूचुकौ तयोः सुस्थिति गोप्यस्थाने पतितत्वात्प्रशस्तं स्थानम् । आप प्राप्ता ॥३६।। अन्वयः-सा अमरस्रक मधुगन्धातिशयेन वीरुधाम आर्तवीम् विभूतिम् अभिभूय नृपतेः दयितोरुस्तनकोटिसुस्थितिम् आप। व्याख्या-सा-पूर्वोक्ता न म्रियन्ते इति अमरा: देवाः सृजति सुखमिति स्रक ( अमराणां स्रगिति अमरस्रग-दिव्यमाला इत्यर्थः, विरुन्धन्ति = आवृण्वन्ति वृक्षानितो वीरुधस्तासां वीरुधां-लतानां ) ( मन्यते इति मधुः, गन्धयतीति गन्धः, मधु-पुष्परसः गन्धः-सुरभिस्तयोः अतिशयः प्राधिक्यं तेन मधुगन्धातिशयेन ) ऋच्छतीति ऋतुस्तस्य इमाम् अार्तवीम् ऋतुसंबन्धिनीम्, विशेषेण भवनं विभूतिस्तां विभूतिम्=ऐश्वर्यम् अभिभूय-तिरस्कृत्य नृपतेः-अजस्य, दयिता=प्रिया-इन्दुमती तस्याः उरू-विशालौ स्तनो कुचौ तयोः कोटी अग्रभागी चूचुको तयोः सुस्थितिः सम्यगवस्थानमिति दयितोरुस्तनकोटिसुस्थितिस्तां दयितोरुस्तनकोटिसुस्थितिम्, आप-प्राप = प्राप्ता । गोपनीयसुन्दरस्थाने पतनात् प्रशस्तां स्थिति प्राप्तवती सा दिव्यमाला। समासः-मधु च गन्धश्चेति मधुगन्धौ तयोः अतिशयस्तेन मधुगन्धातिशयेन । दयितायाः उरू च तौ स्तनौ दयितोरुस्तनौ तयोः कोटी, दयितोमरतनकोटीः, दयितोरुस्तनकोट्योः सुस्थितिस्तां दयितोरुस्तनकोटिसुस्थितिम् । हिन्दी-वह स्वर्गीय पुष्पों की माला, पुष्परस तथा सुगन्धि की अधिकता से वसन्तऋतु की दूसरी लताओं की समृद्धि ( मकरन्द और गन्ध ) का
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy