SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ १८० रघुवंशमहाकाव्ये नारदः । नुः इदं नारम् अज्ञानं द्यति खण्डयति ज्ञानोपदेशेनेति वा नारदः-देवर्षिः, रूयते-स्तूयते रविः, रवते वा रविस्तस्य रवः = सूर्यस्य, उद्यन्ति ग्रहाः अस्मात् स उदयः- पूर्वपर्वतः तस्य या आवृत्तिः आवर्तनं तस्याः पन्थाः, इति उदयावृत्तिपथस्तेन उदयावृत्तिपथेन-तत्संबन्धिना आकाशमार्गेण ययौ जगाम । समासः-दक्षिणस्य उदधिरिति दक्षिणोदधिस्तस्य, दक्षिणोदधेः श्रितं गोकर्ण इति निकेतं येन स तं श्रितगोकर्णनिकेतम् । उदयस्य आवृत्तिरिति उदयावृत्तिस्तस्याः पन्थाः , तेन उदयावृत्तिपथेन । हिन्दी-जब अज वनविहार कर रहे थे उसी समय दक्षिण समुद्र के तीर पर गोकर्णं नाम के स्थान में बसे हुए शिवजी को वीणा बजाकर गाना सुनाने के लिए देवर्षि नारद आकाश-मार्ग से जा रहे थे ॥३३।। कुसुमैर्मथितामपार्थिवैः स्रजमातोद्यशिरोनिवेशिताम् । अहरत्किल तस्य वेगवानधि वासस्पृहयेव मारुतः ।।४।। संजी०-कुसुमैरिति । अपार्थिवैरभौमैः । दिव्य रित्यर्थः । कुसुमैग्रंथितां रचिताम् । तस्य नारदस्यातोद्यस्य वाद्यस्य वीणायाः शिरस्यग्ने निवेशिताम् । 'चतुर्विध. मिदं वाद्यं वादित्रातोद्यनामकम्' इत्यमरः । स माला वेगवान्मारुतः । अधिवासे वासनायां स्पृहयेव । सजा स्वाङ्गं संस्कर्तुमित्यर्थः । 'संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्' इत्यमरः । अहरत्किल । 'किल' इत्यैतिह्ये ॥३४॥ अन्वयः-अपार्थिवैः कुसुमैः ग्रथितां, तस्य आतोद्यशिरोनिवेशिताम न वेगवान् मारुतः अधिवासस्पृहया इव अहरत् किल। व्याख्या-पृथिव्याः विकाराः पार्थिवानि न पार्थिवार्नि, अपार्थिवानि तैः अपार्थिवैः दिव्यैः कल्पवृक्षोत्पन्न रित्यर्थः, कुस्यन्तीति कुसुमानि तैः कुसुमैः= पुष्पः प्रथिता तां ग्रथितां-गुम्फितां रचितामित्यर्थः तस्य-नारदस्य आ समन्तात् तुद्यते ताड्यते इति आतोद्यम्, पातोद्यस्य वाद्यस्य शिरसि-मस्तके-अग्ने निवेशिता स्थापिता ताम् आतोद्यशिरोनिवेशिताम् सृजति सुखमिति सक तां सजम्= मालाम् वेगोऽस्ति अस्यासौ वेगवान् जववान् मरुत एव मारुतः वायुः अधिक वासयते इति अधिवासः, अधिवासे-वासनायां गन्धमाल्या_रित्यर्थः, या स्पृहा= इच्छा तया, अधिवासस्पृहया इव-यथा अहरत्-जहार किल इति ऐति ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy