SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ १६६ रघुवंशमहाकाव्ये स्वामी, शक्यतेऽनया इति शक्तिः कोशदण्डबलानि, प्रभोः स्वामिनः शक्तिः= कोशादिरूपा तस्याः सम्पत्-महिमा तया प्रभुशक्तिसम्पदा वशं-स्वायत्तताम् अनयत्-नीतवान् । अपरः रघुः प्रणिधीयते इति प्रणिधानम् अवधानम् समाधिरित्यर्थः प्रणिधानस्य समाधेः योगाय प्रभवतीति योग्या अभ्यासस्तया प्रणिधानयोग्यया शरीरं = देहः गोचरः विषयः येषान्ते तान् शरीरगोचरान् पञ्च-पञ्चसंख्यकान् म्रियन्ते एभिर्विना वा ते मरुतः वायवः -प्राणापानसमानोदानव्याना इत्यर्थः, तान् वशं-स्वाधीनतामनयत् प्राणापानादीनजयदित्यर्थः । ___समास:-प्रभोः शक्तिस्तस्याः संपत् तया प्रभुक्तिसंपदा । प्रणिधानस्य योग्या तया प्रणिधानयोग्यया । शृणाति शीर्यते वा शरीरं गोचरः येषान्ते तान् शरीरगोचरान् । न अन्तरं येषां ते तान् अनन्तरान् । हिन्दी-अज ने प्रभुशक्ति ( कोशदण्ड सेना की सामर्थ्य ) से अपनी सीमा के समीप में रहने वाले शत्रुओं को अपने बश में कर लिया। और रघु ने समाधि के अभ्यास से ( योगबल से ) शरीर के भीतर रहने वाले पाँचों प्राण, अपान, समान, उदान, व्यान नामक वायुनों को अपने वश में कर लिया अर्थात् जीत लिया ॥१९॥ अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् । इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ॥२०॥ संजी०-प्रकरोदिति । अचिरेश्वरोजः क्षितौ द्विषतामारम्भाः कर्माणि तेषां फलानि भस्मसादकरोत् कात्ल्यन भस्मीकृतवान् । 'विभाषा साति कास्न्ये' (पा. ५।४।५२ ) इति सातिप्रत्ययः । इतरो रघुर्ज्ञानमयेन आत्मज्ञानप्रचुरेण वह्निना पावकेन करणेन स्वकर्मणां भवबीजभूतानां दहने भस्मीकरणे ववृते । स्वकर्माणि दग्धु प्रवृत्त इत्यर्थः । 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन' इति गीतावचनात् ॥२०॥ पन्वयः-अचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् अकरोत् । इतरः ज्ञानमयेन वह्निना स्वकर्मणां दहने ववृते । व्याख्या-न चिरमचिरं नूतनः ईश्वरः स्वामी, इति प्रचिरेश्वरः अजः क्षियतीति क्षितिस्तस्यां क्षितौ पृथिव्यां द्विषन्तीति द्विषतस्तेषां द्विषतां शत्रणाम्
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy