SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः . १६३ मंजी०-यतीति । यतिर्भिक्षुः । पार्थिवो राजा। तयोलिङ्गधारिणौ रघु. राघवौ रघुतत्सुतौ । अपवर्गमहोदयार्थयोर्मोक्षाभ्युदयफलयोः। धर्मयोः निवर्तकप्रवतकरूपयोरित्यर्थः । भुवं गतौ भूलोकमवतीर्णावशाविव । जनैर्ददृशाते दृष्टौ ॥१६।। अन्वयः-यतिपार्थिवलिंगधारिणौ रघुराघवौ अपवर्गमहोदयार्थयोः धर्मयोः भुनं गतौ अंशो इव जनैः ददृशाते । व्याख्या—यतते इति यतिः भिक्षुः निर्जितसन्द्रियसमूहः इत्यर्थः । पृथिव्या ईश्वरः पार्थिवः राजा चेति यतिपार्थिवौ, तयोः लिङ्ग = चिह्न धारयतः तौ यतिपार्थिवलिंगधारिणौ । रघुः-दिलीपसूनुः राघवः अजश्चेति रघुराघवौ । अपवर्जनमिति अपवर्ग:=मुक्तिः महोदयः अभ्युदयः= अर्थः प्रयोजनं फलं ययोस्तयोः, अपवर्गमहोदयार्थयोः । धरतः निवर्तकप्रवर्तकरूपेण यौ तौ धौं तयोः धर्मयोः निवर्तकप्रवर्तकरूपयोः, भवतीति भूः, तां भुवं भूमि गतौ-अवतीर्णी, अंशौ-भागौ इव = यथा जनैः लोकैः ददृशाते अवलौकितौ-दृष्टावित्यर्थः। ___ समासः-यतिश्च पार्थिवश्चेति यतिपार्थिवौ तयोः लिंगं धारयतः यौ तौ यतिपार्थिवलिंगधारिणौ । रघुश्च राघवश्चति रघुराघवौ। अपवर्गश्च महोदयश्च इति अपवर्गमहोदयौ तौ एवार्थः ययोस्तौ, तयोः अपवर्गमहोदयार्थयोः। हिन्दी-संन्यासी तथा राजा के चिह्न को धारण किये हुए रघु और उसके पुत्र अज को लोगों ने ऐसे देखा कि मानो मोक्ष और ऐश्वर्य देने वाले, दो धर्मों के भूलोक में आये हुए अंश हो । अर्थात् रघु को अपवर्ग का अंश, तथा अज को ऐहिक ऐश्वर्य के अंश के रूप में देखा ॥१६॥ अजिताधिगमाय मन्त्रिभिर्यु युजे नीतिविशारदैरजः । अनपायपदोपलब्धये रघुराप्तः समियाय योगिभिः ॥१७॥ संजो०-अजितेति । अजोऽजिताधिगमायाजितपदलाभाय नीतिविशारदैर्नीतिमन्त्रिभियुयुजे संगतः । रघुरप्यनपायिपदस्योपलब्धये मोक्षस्य प्राप्तये यथार्थदर्शिनो यथार्थवादिनश्चाप्ताः तैर्योगिभिः समियाय संगतः। उभयत्राप्युपायचिन्तार्थमिति शेषः ॥१७॥ अन्वयः-अजः अजिताधिगमाय नीतिविशारदैः मंत्रिभिः युयुजे. रघुः अनगायिपदोपलब्धये प्राप्तैः योगिभिः समियाय ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy