SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ १४. रघुवंशमहाकाव्ये वीरः सः स्वहस्तार्जितं मूर्तं मूर्तिमद्यशः पिबन्निवाबभासे । यशसः शुभ्रत्वादिति भावः ॥६३॥ अन्वयः--ततः कुमारः प्रियोपात्तरसे अधरोष्ठे जलजं निवेश्य दध्मौ तेन एकवीरः सः स्वहस्ताजितं मूर्त यशः पिबन् इव आबभासे। व्याख्या--ततः -- शत्रुसेनास्वापानन्तरम् कुमार:= युवराजोऽजः प्रियया = इन्दुमत्या उपात्तः- गृहीतः आस्वादितः रसः = माधर्य यस्य स तस्मिन प्रियोपात्तरसे न ध्रियते इति अधरः उष्यते उष्णाहारेण सः ओष्ठः अधरश्चासौ ओष्ठः अधरोष्ठः तस्मिन् अधरोष्ठे जलात् जातं जलजं = शङखम् निवेश्य = संस्थाप्य दध्मौ = ध्मातवान्, मुखानिलेन पूरितवानित्यर्थः । तेन = ओष्ठनि विष्टेन जलजेन एक: = अद्वितीयश्चासौ वीरः = शूरः इति एकवीरः सः = अजः स्वस्य=निजस्य हस्तौ करौ स्वहस्तौ, स्वहस्ताभ्याम् अजितम् = प्राप्तम् मूर्तम् = मूर्तिमत् यशः = कीर्तिम् पिबन् = पानं कुर्वन् इव = यथा आबभासे = शुशुभे । समास---प्रियया उपात्त: रसः यस्य स तस्मिन् प्रियोपात्तरसे । अधरश्चासौ ओष्ठस्तस्मिन् अधरोष्ठे । स्वरय हस्ताभ्याम् अजितं स्वहस्ताजितम् तत् । एकश्चासौ वीरः एकवीरः।। हिन्दी--इसके पश्चात् अज ने अपने उस ओठ पर रखकर शंख को बजाया, जिसका रसास्वाद इन्दुमती ने चखा है। ओठ पर रखे उस शंख से पराक्रमी कुमार ऐसा लग रहा था कि मानो अपने बाहुबल से प्राप्त किये मूर्तिमान यश को पी रहा हो ॥६३॥ शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नश ददृशुः स्वयोधाः । निमीलितानामिव पङ्कजानांमध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥६॥ संजी०-शङखेति । शङखस्वनस्याजशङखध्वनेरभिज्ञतया प्रत्यभिज्ञातत्वान्निवृत्ता: प्राक्पलाय्य संप्रति प्रत्यागता: स्वयोधाः सन्नश निद्राणशत्रु तमजम् । निमीलितानां मुकुलितानां पङ्कजानां मध्ये स्फुरन्तं प्रतिमा चासौ शशाङ्कश्च तं प्रतिमाशशाङ्कं प्रतिबिम्बचन्द्रमिव ददृशुः ॥६४॥ अन्वयः-शंखस्वनाभिज्ञतया निवृत्ताः स्वयोधाः सन्नशत्रु तम् निमीलितानां पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशांकम् इव ददृशुः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy