SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः सोऽस्त्रव्रजैश्छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः । नीहारमग्नो दिनपूर्वभागः किचित्प्रकाशेन विवस्वतेव ॥ ६० ॥ १३७ संजी० ० - स इति । परेषां द्विषामस्त्रव्रजैश्छन्न रथः सोऽजः । नीहारेहि मैर्मग्नो दिन पूर्वभागः प्रातःकाल : किंचित्प्रकाशेनेषल्लक्ष्येण विवस्वतेव । ध्वजाग्रमात्रेण लक्ष्यो बभूव । ध्वजाग्रादन्यन्न किंचिल्लक्ष्यते स्मेत्यर्थः ॥ ६० ॥ अन्वयः - परेषाम् अस्त्रव्रजैः छन्नरथः सः नीहारमग्नः दिनपूर्वभाग: ferfareerशेन विवस्वता इव ध्वजाग्रमात्रेण लक्ष्यः बभूव । = व्याख्या - परेषां = शत्रूणाम् अस्यन्ते, असन्ति वा अस्त्राणि, अस्त्राणां : शस्त्राणां व्रजाः = समूहास्तैः अस्त्रव्रजैः, छन्नः = व्याप्तः रभः = स्यन्दनं यस्य स छन्नरथः सः = अजः निह्रियन्ते इति नीहारास्तैः नीहारैः = हिमैः मग्नः = व्याप्तः नीहारमग्नः दिनस्य==दिवसस्य पूर्वभागः = प्रातः कालः दिनपूर्वभाग: किंचित् = ईषत् प्रकाशः = आतपः यस्य सः, तेन किंचित्प्रकाशेन विविधं वस्ते= आच्छादयतीति विवस्वान्, विवः = रश्मिरस्यास्तीति वा विवस्वान् तेन विवस्वता = सूर्येण इव = यथा ध्वजस्य = पताकायाः अग्रम् = अग्रभागः इति ध्वजाग्रम् ध्वजाग्रमेव ध्वजाग्रमात्रं तेन ध्वजाग्रमात्रेण लक्षितुं योग्य: लक्ष्यः = दृश्यः बभूव = आसीत् । 1 समासः - अस्त्राणां व्रजास्तैः अस्त्रव्रजैः । छन्तः रथो यस्य सः, छन्नरथः । ध्वजस्य अग्रम् ध्वजाग्रम्, ध्वजाग्रमेव ध्वजाग्रमात्रं तेन ध्वजाग्रमात्रेण । नीहारैः मग्नः नीहारमग्नः । पूर्वश्चासौ भागः पूर्वभागः, दिनस्य पूर्वभागः दिन पूर्व भागः । किंचित् प्रकाशो यस्य सः किंचित्प्रकाशस्तेन किंचित्प्रकाशेन । हिन्दी - शत्रुओं के अस्त्रों के समूह से ( बाण वर्षा से ) अज का रथ ढँक गया और अज केवल पताका के सिरे के दीखने से वैसे ही दीखता था, जैसे कोहरे से ढँका हुआ प्रातःकाल, धुँधले प्रकाश वाले सूर्य से दीखता है । अर्थात् ध्वजा के सिरे के अतिरिक्त कुछ भी वहाँ नहीं देख पड़ता था, घोर शस्त्रवर्षा के कारण ॥ ६० ॥ प्रियंवदात्प्राप्तमसौ कुमारः प्रायुङ्क्त राजस्वधिराजसूनुः । गान्धर्वमस्त्रं कुसुमास्त्र कान्तः प्रस्वापनं स्वप्ननिवृत्त लौल्यः ॥ ६१ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy