SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः १३५ चढ़ाना और चलाना तो सर्वथा अदृश्य ही था ) । ऐसा लगता था मानो एक बार कान तक खींची गई अज के धनुष की डोरी ही बाणों को पैदा कर रही थी ॥५७॥ शत्रुओं को नाश करने वाले 1 स रोषदष्टाधिक लोहितोष्ठेर्व्य क्तोर्ध्वरेखा भ्रुकुटीर्वद्भिः । तस्तार गां भल्लनिकृत्तकण्ठेहुंकारगर्भे द्विषतां शिरोभिः ॥ ५८ ॥ संजी० -- स इति । सोऽजः रोषेण दष्टा अत एवाधिकलोहिता ओष्ठा येषां तानि तै: । व्यक्ता ऊर्ध्वा रेखा यासां ता भ्रुकुटी भ्रूभंगान्वहद्भिः । भल्लनिकृत्ता वाणविशेषच्छिन्नाः कण्ठा येषां तैः । हुंकारगर्भैः सहुंकारै: हुंकुर्वद्भिरित्यर्थः । द्विषतां शिरोभिर्गा भूमि तस्तार छादयामास || ५८ || अन्वयः -- सः रोषदष्टाधिकलोहितोष्ठ : व्यक्तोर्ध्वरेखाः भ्रुकुटी: वहद्भिः भल्लनिकृत्तकण्ठैः हुंकारगर्भेः द्विषतां शिरोभिः गां तस्तार । = व्याख्या - सः अजः रोषेण = क्रोधेन दष्टा: = दंशिताः अत एव अधिका: लोहिताः = रक्ताः ओष्ठा:=दन्तच्छदाः येषां तानि तैः रोषदष्टाधिकलोहितोष्ठः व्यक्ता = स्पष्टा ऊर्ध्वा = उपरि भागे स्थिता रेखा = लेखा पंक्तिर्यासां ताः व्यक्तोर्ध्वरेखाः = भ्रुवोः कुटयः भ्रुकुटयः ताः भ्रुकुटीः = भ्रूभंगान् वहद्भि: - धारर्याद्भः क्रोधेन मस्तकसंकोचं कुर्वद्भिरित्यर्थ: । भल्लै = बाणविशेषैः निकृत्ताः = छिन्नाः कण्ठाः = गलाः येषां तानि तैः भल्लनिकृत्तकण्ठैः, हुंकार : हुंकृति: गर्भे - अभ्यन्तरे येषां तानि तैः हुंकारगर्भैः हुंकुर्वद्भिरित्यर्थ: द्विषन्तीति द्विषन्तः तेषां द्विषतां = शत्रूणां शिरोभिः = मस्तकैः गां = पृथिवीं तस्तार = आच्छादयामास, 'हूंकार' - इति दीर्घपाठोऽपि क्वचित् । , समास : - रोषेण दष्टा: रोषदष्टाः ( अत एव ) अधिका: लोहिताः ओष्ठाः येषान्तानि तैः रोषदष्टाधिकलोहितोष्ठैः । भल्लेन निकृत्ताः कण्ठाः येषां तानि तैः भल्लनिकृत्तकण्ठैः । हुंकार : गर्भे येषां तानि तैः हुंकारगर्भैः । व्यक्ता ऊर्ध्वा रेखा यासां ताः व्यक्तोर्ध्वरेखाः ताः व्यक्तोर्ध्व रेखाः । हिन्दी - --अज ने शत्रुओं के उन सिरों से पृथिवी को पाट दिया, जिनके ओठ क्रोध से काटने के कारण खूब लाल थे और जिनके मस्तक पर
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy