SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रथमा सर्गः १६ अर्णवः = समुद्रः, इव = यथा, धर्षितुं योग्यो धृष्यः, न धृष्यः अधष्यः = अनभिभवनीयः, अभिगन्तुं योग्योऽभिगम्यः= आश्रयणीयश्च, बभूव = जातः । ___समा०-भीमाः च कान्ताः च भीमकान्ताः तैः भीमकान्तः, नृपाणाम् गुणाः नपगुणाः । नृपगुणः, उपजीवन्ति इति उपजीविनः तेषाम् उपजीविनाम्, यादांसि च रत्नानि च यादोरत्नानि तैः यादोरत्नैः, धर्षितुम् योग्यः धृष्यः न धृष्यः अधृष्यः, अभिगन्तुम् योग्यः अभिगम्यः । __ अभि०--जलजन्तुभिः, रत्नश्च सागरो यथा, अनभिभवनीयः, आश्रयणीयश्च भवति तथैव आश्रितानाम् राजा दिलीपोऽपि तेजःप्रतापादिभिः, दयादाक्षिण्यादिभिश्च बभूव। हिदी-तेज प्रताप आदि डरावने तथा दया दाक्षिण्य आदि सुन्दर गणों के कारण राजा दिलीप का उनके आश्रितजन वैसे ही तिरस्कार नहीं करते थे तथा सेवा भी करते थे, जैसे कि मगर-मच्छों तथा रत्नों के कारण समुद्र का। अर्थात् मकरादि से डरकर लोग समुद्र से दूर भी भागते हैं और रत्नों को लेने के लिये उसमें घुसते भी हैं ॥१६॥ रेखामात्रमपि क्षुगणादामनोवमनः परम् । न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ॥१७॥ सञ्जीविनी-नियन्तुः शिक्षकस्य सारथेश्च तस्य दिलीपस्य संबन्धिन्यो नेमीनां चक्रधाराणां वृत्तिरिव वृत्तिापारो यासां ताः, 'चक्रधारा प्रधिर्नेमिः' इति यादवः । 'चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्' इत्यमरः। प्रजाः आ मनोः मनुमारभ्येत्यभिविधिः। पदद्वयं चतत् । समासस्य विभाषितत्वात् । क्षुण्णादभ्यस्तास्त्रहताच्च वर्मन आचारपद्धतेरध्वनश्च परमधिकम् । इतस्तत इत्यर्थः। रेखा प्रमाणमस्येति रेखामात्र रेखाप्रमाणं । ईषदपीत्यर्थः। 'प्रमाणे द्वयसज्दघ्नञ् मात्रचः' इत्यनेन मात्रच्प्रत्ययः । परशब्दविशेषणं चैतत् । न व्यतीय तिक्रान्तवत्यः। कुशलसारथिप्रेषिता रथनेमय इव तस्य प्रजाः पूर्वक्षुण्ण मार्ग न जहुरिति भावः ॥१७॥ ___ अन्वयः-नियन्तुः, तस्य, नेमिवृत्तयः, प्रजाः, मा मनोः, अण्णाद, वर्त्मनः, परं, रेखामात्रमपि, न, व्यतीयुः।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy