SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः अन्वयः - परस्परेण क्षतयो: समकालमेव, यथा स्यात्तथा, उत्क्रान्तवाय्वोः एकाप्सरः प्रार्थितयोः कयोश्चित् प्रत्रः अमर्त्यभावेऽपि विवादः आसीत् । १३१ व्याख्या - परस्परेण = अन्योन्यम् क्षतयोः = नष्टशरीरयोः समः = एकः कालः = समय: यस्मिन् कर्मणि तत् समकालम् एव यथा स्यात्तथा क्रियाविशेषणम्, युगपदेवेत्यर्थः उत्क्रान्तः - उद्गत: निष्क्रान्त इत्यर्थः वायुः = प्राणः ययोस्तौ तयोः उत्क्रान्तवाय्वोः एकैव अप्सरा : = स्वर्वेश्या प्रार्थिता = याचिता याभ्यां तौ तयोः एकाप्सरःप्रार्थितयोः, अथवा एकस्यामप्सरसि प्रार्थितं = प्रार्थना ययोस्तयोः तथोक्तयोः एकामेवाप्सरसमभिलषतोरित्यर्थः कयोश्चित् = द्वयोः प्रहर्त्रीः = वीरयोः अमर्त्यस्य भावः अमर्त्यभावस्तस्मिन् अमर्त्यभावेऽपि = देवत्वेऽपि विवादः =विरोधः आसीत् =अभूत् । एकसुन्दर्यभिलाषः महाविरोधकारणं भवतीति भावः । समासः — उत्क्रान्तः वायुः ययोस्तौ तयो: उत्क्रान्तवाय्वोः । समः कालः यस्मिन् कर्मणि तत् सभकालम् । म्रियन्तेऽस्मिन् मर्तः (भूलोकः ) मर्त एव मर्त्यः न मर्त्यः अमर्त्यः, अमर्त्यस्य भावः अमर्त्यभावस्तस्मिन् अमर्त्यभावे | एका एव अप्सराः प्रार्थिता याभ्यां तौ तयोः एकाप्सरः प्रार्थितयोः, एकाप्सरसि प्रार्थितं ययोस्तयोर्वा । हिन्दी - आपस में एक दूसरे के शरीर को काटने वाले और एक साथ ही जिनका प्राणवायु निकल गया था ऐसे किन्ही दो योद्धाओं का (युद्ध में मरने के कारण ) देवता बनने पर भी एक ही अप्सरा को चाहने के कारण ( मरने के पश्चात् स्वर्ग में भी ) झगड़ा होता रहा ||५३॥ , व्यूहावुभौ तावितरेतरस्माद् भङ्गं जयं चापतुरव्यवस्थम् । पश्चात्पुरो मारुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी ॥ ५४ ॥ संजी० - व्यूहाविति । तावुभौ व्यूहौ सेनासघातौ । 'व्यूहस्तु बलविन्यासः' इत्यमरः । पश्चात्पुरश्च यौ मारुतौ तयोः पर्यायवृत्त्या क्रमवृत्त्या प्रवृद्धौ महान्ता - वर्णवोर्सी महार्णवोर्मी इव । इतरेतरस्मादन्योन्यस्मादव्यवस्थं व्यवस्थारहितम नियतं जयं भङ्गं पर जयं चापतुः प्राप्तवन्तौ ||५४ || अन्वयः -- तौ उभौ व्यूहो पश्चात्पुरो मारुतयोः पर्यायवृत्त्या प्रवृद्धौ महार्णवोर्मी इव इतरेतरस्मात् अव्यवस्थं जयं भङ्गञ्च आपतुः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy