SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्ग: ११३ आत्तस्वास्तेषां भाव: आत्तस्वता तया आत्तस्वतया दिग्विजयकाले रघुणा गृहीतधनत्वेनेत्यर्थः, कोसलानामिन्द्रस्तस्मिन् कोसलेन्द्रे = रघौ प्ररूढः = प्रवृद्ध: मन्यु:= वैरं येषान्ते प्रमन्वय: बभूवुः = जाताः, अतः कारणात् समेताः = संगता: संघी. भूता इत्यर्थः सन्तः, तस्य = रघो: आत्मजः = पुत्र: तस्य तदात्मजस्य अजस्य स्त्री एव रत्नमिति = स्त्रीरत्नम् = इन्दुमतीरूपं तस्य लाभः = स्वयंवरे प्राप्तिः, तम् स्त्रीरत्नलाभं न = नहि चक्षमिरे =से हिरे सोढवन्त इत्यर्थः। समासः-कोसलानामिन्द्रस्तस्मिन् कोसलेन्द्रे । आत्तं स्वं येषान्ते आत्तस्वास्तेषां भावस्तत्ता तया आत्तस्वतया । स्त्री एव रत्नमिति स्त्रीरत्नं तस्य लाभस्तं स्त्रीरत्नलाभम् स्त्रीषु रत्नं तस्य लाभस्तमिति वा । तस्यात्मजस्तस्य तदात्मजस्य । प्ररूढः मन्युर्येषां ते प्रमन्यवः । हिन्दी--जो रास्ता रोककर खड़े थे वे राजा पहले से ही, दिग्विजय के समय प्रत्येक का धन छीन लेने के कारण कोसलपति रघु से वैर बाँधे हुए थे। इसीलिए अब वे सब मिलकर रघुपुत्र अज के स्त्रियों में रत्न इन्दुमती की प्राप्ति को सहन न कर सकें । अर्थात् पहले अलग-अलग बैर बाँधे हुए थे ही, और अब मिलकर अज को इन्दुमती को ले जाते कैसे सह सकते थे ? ॥३४॥ तमुद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः। बलिप्रदिष्टां श्रियमाददानं त्रैविक्रम पादमिवेन्द्रशत्रुः॥३५॥ संजी०--तमिति । दप्त उद्धतः स राजन्यगणो राजसंघातः। भोजकन्यामुद्वहन्तं नयन्तं तमजम् । बलिना वैरोचनिना प्रदिष्टां दत्तां श्रियमाददानं स्वीकुर्वाणम् । त्रिविक्रमस्येमं त्रविक्रमम् । पादमिन्द्रशत्रुः प्रह्लाद इव । पथि रुरोध । तथा च ब्रह्माण्डपुराणे--'विरोचनविरोधेऽपि प्रह्लादः प्राक्तनं स्मरन् । विष्णोस्तु क्रममाणस्य पादाम्भोज रुरोध ह ॥' इति ।।३५।। अन्वयः-दृप्तः स राजन्यगणः भोजकन्याम् उद्वहन्तं तम् बलिप्रदिष्टां श्रियम् आददानं त्रैविक्रमं पादम् इन्द्रशत्रुः इव पथि रुरोध । व्याख्या-दृप्तः गर्वितः-उद्दण्डः स: पूर्वोक्तः राज्ञोऽपत्यानि राजन्या: राजपुत्रास्तेषां गण:- समूहः राजन्यगणः भोजस्य कन्या तां भोजकन्याम् उद्वहन्तं=
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy