SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः वाच्य०-सर्वातिरिक्तसारेण सर्वतेजोभिभाविना सर्वोन्नतेनात्मना मेरुणेव, तेन, उर्वी क्रान्त्वा स्थितेनाभावि। ___ व्याख्या--सर्वेभ्यः = समस्तभतेभ्या,अतिरिक्तः=विशिष्ट:=अधिक इत्यर्थः, सार:= बलं यस्य स सर्वातिरिक्तसारा, तेन सर्वातिरिक्तसारेण सर्वान् =अखिलान् "जनान्" तेजसा= स्वप्रतापेन, अभिभवति तिरस्करोतीति सर्वतेजोऽभिभावी, तेन सर्वतेजोऽभिभाविना, सर्वेभ्या= सर्वभूतेभ्यः, उन्नतःप्रांशः, तेन सर्वोन्नतेन, आत्मना= शरीरेण, मेर=सुमेरुपर्वतः, इव= यथा, उर्वी-पथिवीं, क्रान्त्वा% व्याप्य, आक्रम्येत्यर्थः 'स्थितः, दिलीप:'। प्रथमान्तानि कृत्वा मेरुपर्वतेऽपि विशेषणानि योजनीयानि। समा०-सर्वेभ्यः अतिरिक्तः सारः यस्य सः सर्वातिरिक्तसारः तेन, सर्वातिरिक्तसारेण । सर्वान तेजसा अभिभवति इति सर्वतेजोऽभिभावी, तेन सर्वतेजोऽभिभाविना। सर्वेभ्यः उन्नतः सर्वोन्नतः, तेन सर्वोन्नतेन । अभि०--राजा दिलीपः सुमेरुपर्वत इव शरीरेण बलेनोन्नत्येन तेजसा च 'सर्वातिशायी' सन् पृथिवीमधिष्ठाय स्थितः। हिन्दी--जिस प्रकार सुमेरु पर्वत ने अपनी पृढ़ता से अपनी कान्ति से तथा ऊँचाई से सभी दढ, कान्ति वाले तथा ऊँचे पदार्थों को दबाकर अपने विस्तार से सारी पृथिवी को व्याप्त कर रखा है वैसे ही राजा दिलीप ने अपने पराक्रम, तेज बोर लम्बे चौड़े शरीर से सब को नीचा दिखाकर समस्त पृथिवी मण्डल को अपने अधीन कर लिया था ॥१४॥ आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः। आगमैः सदृशारम्भ आरम्भसदृशोदयः॥१५॥ सञ्जीविनी--आकारेण मूर्त्या सदृशी प्रज्ञा यस्य सः। प्रज्ञया सदशागमा प्रज्ञानुरूपशास्त्रपरिश्रमः । आगमः सदृश आरम्भः कर्म यस्य स तथोक्ता। आरभ्यत इत्यारम्भः कर्म । तत्सदश उदयः फलसिद्धिर्यस्य स तथोक्तः॥१५॥ __ अन्वयः--आकारसदृशप्रज्ञः, प्रज्ञया, सवृशागमः, आगमः सवृशारम्भः, मार. म्भसदशोदयः, 'स दिलीप आसीत'। वाच्य०-आकारसदृशप्रज्ञेन, प्रज्ञया सदृशागमेन, आगमै। सदृशारम्भेण, . आरम्भसदृशोदयेन, दिलीपेन अभावि ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy