SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ समयोपलभ्यम् । आदास्यमानः प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ ॥३१॥ संजी०- स इति। आरम्भसिद्धौ कार्यसिद्धौ विषये । पूर्वं कृता कृतपूर्वा । सुप्सुपेति समास: । कृतपूर्वा संवित् संकेतो मार्गावरोधरूप उपायो येन स तथोक्तः। 'संविद्युद्धे प्रतिज्ञायां संकेताचारनाम' इति केशवः। स राजलोकः समरोपलभ्यमजप्रस्थानकाले लभ्यम् । सदा तस्यैकाकित्वादिति भावः । 'समरोपलभ्यम्' इति पाठे युद्ध साध्यमित्यर्थः। तत्प्रमदैवामिषं भोग्यवस्तु । 'आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि' इति केशवः। आदास्यमानो ग्रहीष्यमाणः सन्, अस्य पन्थानमावृत्यावरुध्य तस्थौ ॥३१॥ अन्वयः-आरम्भसिद्धौ कृतपूर्वसंवित् स राजलोक: समयोपलभ्यम् तत् प्रमदामिषम् आदास्यमानः सन् अजस्य पन्थानम् आवृत्य तस्थौ । व्याख्या--आरम्भस्य = कार्यस्य सिद्धि:=सफलता तस्याम् आरम्भसिद्धौ विषये पूर्व प्रथमं कृता = निश्चिता, इति कृतपूर्वा संवित् =संकेतः मार्गेऽजस्यावरोधरूपोपाय: येन स कृतपूर्वसं वित् स:=पूर्वोक्त: राज्ञां = भूपालानां लोक:= जनः समूह इति राजलोकः समये =अजयात्रासमये लभ्यं = प्राप्यम्, ( तदा अजस्यकाकित्वात्, अन्येषां बहुत्वात् ) इति समयोपलभ्यम् तत् = प्रसिद्धम् प्रकृष्टो मदोऽस्ति अस्याः सा प्रमदा, प्रमदा = कामिनी एव आमिषं = भोग्यवस्तु तत् प्रमदामिषम् आदास्यते इति आदास्यमान:=ग्रहीष्यमाणः, अग्रे आदातुमिच्छनित्यर्थः सन् अजस्य रघुपुत्रस्य पन्थानं मार्गम् आवृत्य प्रतिरुध्य मार्गावरोधं कृत्वेत्यर्थः तस्थौ स्थितः। मार्ग एकाकिनं यान्तमजं युद्धेन विजित्य स्त्रीरत्नं हरिष्यामः इति पूर्वमेव संकेतं कृत्वा सर्वे नृपा: मार्गे स्थिता: । समास:-आरम्भस्य सिद्धिस्तस्यामारम्भसिद्धौ। पूर्वं कृता कृतपूर्वा, कृतपूर्वा संवित् येन स तथोक्तः। राज्ञां लोकः राजलोकः । समये उपलभ्यं समयोपलभ्यम् तत् । प्रमदा एव आमिषमिति प्रमदामिषम् तत् ।। हिन्दी-कार्य की सिद्धि के विषय में पहले ही निश्चय कर लेनेवाले राजा लोग (जब अज अकेला इन्दुमती को लेकर जावे तभी रास्ते में रोक कर छीन लेंगे ) चलने के समय मिलने वाली स्त्री रूपी भोग्य वस्तु को छीनने की इच्छा करके, अज के मार्ग को रोककर (छेककर) खड़े हो गए ॥३१॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy