SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः १०७ क्लेदस्तेन समाकुले अक्षिणी यस्मिन् तत् तथोक्तम् । प्रकर्षण म्लानः बीजाङकुर एव कर्णपूरो यस्मिन् तत् तथोक्तम् । पाटला गण्डलेखा यस्मिन् तत् तथोक्तम् । हिन्दी-उस समय, वह इन्दुमती का मुख मांगलिक धूएँ के लगने से आँजन मिले आँसुओं से भर गया और बीजांकुर का कर्णभूषण मुरझा गया, तथा गाल लाल हो गए ॥२७॥ तौ स्नातकैर्बन्धुमता च राज्ञा पुरंध्रिभिश्च क्रमशः प्रयुक्तम् । कन्याकुमारी कनकासनस्थावार्द्राक्षतारोपणमन्वभूताम् ।।२८।। संजी०–ताविति । कनकासनस्थौ तौ कन्याकुमारौ स्नातकैगृहस्थविशेषैः । 'स्नातकस्त्वाप्लुतो व्रती' इत्यमरः। बन्धुमता। बन्धुपुरःसरेणेत्यर्थः। राज्ञा च पुरंध्रिभि: पतिपुत्रवतीभिर्नारीभिश्च क्रमशः प्रयुक्तं स्नातकादीनां पूर्वपूर्ववैशिष्ट्याक्रमेण कृतमार्द्राक्षतानामारोपणमन्वभूतामनुभूतवन्तौ ॥२८॥ अन्वयः-कनकासनस्थौ तौ कन्याकुमारौ स्नातकैः बन्धुमता राज्ञा च पुरन्ध्रभिश्च क्रमशः प्रयुक्तम्, आर्द्राक्षतरोपणम् अन्वभूताम् । व्याख्या-कनकस्य-सुवर्णस्य आसनम = पीठमिति कनकासनं तत्र तिष्ठतः इति कनकासनस्थौ, सुवर्णनिर्मितसिंहासनोपविष्ठावित्यर्थः, सा च स च तौ कन्या = इन्दुमती कुमारः = अजश्चेति कन्याकुमारौ स्नान्ति स्म स्नातकाः= गृहस्थविशेषास्तैः स्नातकैः बन्धवः सन्त्यस्येति बन्धुमान् तेन बन्धुमता = स्वजनपुर:सरेण राज्ञा = भोजेन च = अपि पुरं = गेहं 'पुरे नपुंसकं गेहं', मेदिनी, धरन्तीति पुरन्ध्रय : ताभिः पुरन्ध्रिभिः = पतिपुत्रवतीभिश्च क्रमशः = क्रमेण प्रयुक्तम् = कृतम् आर्द्राः = कुंकुमाक्ताः अक्षताः = अखण्डतण्डुलाः इति आर्द्राक्षतास्तेषाम् आरोपणम् =प्रक्षेपणम् = आशीर्वादपूर्वकदानमित्यर्थः, अन्वभूताम् = अनुभूतवन्तौ, साशीर्वचनमक्षतान् गृहीतवन्तावित्यर्थः। समास:--कनकस्यासनमिति कनकासनं तत्र तिष्ठत इति कनकासनस्थौ, स च सा च तौ, कन्या च कुमारश्चेति कन्याकुमारौ। स्नान्ति स्म इति स्नातकास्तैः स्नातकः, बन्धवोऽस्य सन्तीति बन्धुमता, पुरं धरन्तीति पुरन्ध्रयस्ताभिः र रन्ध्रिभिः, ( अच: इ इति इप्रत्ययान्तो ह्रस्वोऽपि पुरंधिशब्द: पृषोदरादित्वात्
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy