SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः से सजाई गई थी तथा पुष्पवर्षा से मार्ग पट गया था और इतनी पताकाएं लगी थीं कि धूप का नाम ही न था ॥ ४ ॥ ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु । ८७ बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि ॥५॥ संजी०. - तत इति । ततस्तदनन्तरं चामीकरजालवत्सु सौवर्णगवाक्षयुक्तेषु सौधेषु तस्याजस्यालोकने तत्पराणामासक्तानां पुरसुन्दरीणामित्थं वक्ष्यमाणप्रकाराणि त्यक्तान्यन्यकार्याणि केशबन्धनादीनि येषु तानि विचेष्टितानि व्यापाराः । नपुंसके भावे क्तः । बभूवुः ||५|| अन्वयः - ततः चामीकरजालवत्सु सोधेषु तदालोकनतत्पराणां पुरसुन्दरीणाम् इत्थं त्यक्तान्यकार्याणि विचेष्टितानि बभूवुः । व्याख्या— ततः=राजमार्गप्रवेशानन्तरम् चामीकरस्य = सुवर्णस्य जालानि= गवाक्षाः सन्ति येषु ते तेषु चामीकरजालवत्सु = सुवर्णनिर्मितवातायनवत्सु इत्यर्थः, सौधेषु = भवनेषु तस्य = अजस्य आलोकनं दर्शनं तस्मिन् तत्पराः = आसक्ताः इति तदालोकनतत्परास्तासां तदालोकनतत्पराणाम् पुरस्य = नगरस्य सुन्दर्यः रमण्यस्तासां पुरसुन्दरीणाम् इत्थम् = वक्ष्यमाणप्रकाराणि त्यक्तानि = परित्यक्त नि अन्यानि = अपराणि कार्याणि = केशबन्धनादीनि येषु तानि त्यक्तान्यकार्याणि, विशेषाणि च तानि चेष्टितानि = व्यापाराः बभूवुः = जातानि । = आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । बन्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः ॥ ६ ॥ = समासः-चामीकरस्य जालानि सन्ति येषु ते तेषु चामीकरजालवत्सु । सुधया लिप्ताः सौधास्तेषु सौधेषु । तस्य आलोकनं तदालोकनं तदालोकने तत्परास्तासां तदालोकनतत्पराणाम् । पुरस्य सुन्दर्यस्तासां पुरसुन्दरीणाम् । त्यक्तानि अन्यानि कार्याणि येषु तानि त्यक्तान्यकार्याणि । विशेषाणि च तानि चेष्टितानि विचेष्टितानि । हिन्दी - राजमार्ग में चलते समय, सुवर्णनिर्मित झरोखों ( खिड़की ) वाले अपने-अपने भवनों से अज को देखने में लगीं, भोज के नगर की सुन्दरियां अन्य सब कार्य छोड़कर अग्रिम श्लोकों में वर्णित चेष्टाएं करने लगीं ॥५॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy