SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ७८ रघुवंशमहाकाव्ये समासः-वेत्रं बिभर्तीति या सा वेत्रभृत् । परिहासः पूर्वः यस्मिन् कर्मणि तद् यथा भवति तथा परिहासपूर्वम् । असूयया कुटिलं यथा तथा असूयाकुटिलम् । हिन्दी--इन्द्रमती के इस प्रकार हो जाने पर अर्थात् अजविषयक अनुराग प्रकट हो जाने पर सखी द्वारपालिका सुनन्दा ने परिहासपूर्वक (दिल्लगी करते हुए) इन्दुमती से कहा कि हे आर्य ! दूसरे राजा के पास चलो, यह सुनकर इन्दुमती ने सुनन्दा को रोषपूर्वक तिरछी नजर से देखा । क्योंकि अब अन्यत्र जाना इन्दुमती को सह्य नहीं है ॥ ८२ ॥ सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः । आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम् ॥ ८३ ॥ संजी०-सेति। करभः करप्रदेशविशेषः । 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः । करभ उपमा ययोस्तावूरू यस्याः सा करभोपमोरूः । 'ऊरूत्तरपदादौपम्ये' (पा. ४।१।६९) इत्यूप्रत्ययः । सा कुमारी चूर्णेन मङ्गलचूर्णेन गौरं लोहितं गुणं स्रजम् । मूर्तं मूर्तिमन्तमनुरागमिव । धात्र्या उपमातुः सुनन्दायाः कराभ्यां रघुनन्दनस्याजस्य कण्ठे यथाप्रदेशं यथास्थानमासञ्जयामासासक्तं कारयामास । न तु स्वयमाससञ्ज, अनौचित्यात् ॥ ८३ ॥ __अन्वयः-करभोपमोरू: सा चूर्णगौरं गुणम् अनुरागम् इव धात्रीकराभ्यां रघुनन्दनस्य कण्ठे यथाप्रदेशम् आसञ्जयामास । व्याख्या-करभः करबहिर्भागः उपमा उपमानं ययोस्तो करमोपमौ, करभोपमौ ऊरू जंघे यस्याः सा करभोपमोरूः सा कुमारी इन्दुमती चूर्णेन=मांगलिकचूर्णेन गौरं लोहितमिति चूर्णगौरम्, गुणं मालां मूर्त=मूर्तिमन्तम् अनुरागम्= अभिलाषम् इव =यथा धात्र्याः उपमातुः सुनन्दाया: करौ हस्तौ ताभ्यां धात्रीकराभ्याम् रघोः नन्दनः रघुनन्दनस्तस्य रघुनन्दनस्य अजस्येत्यर्थः, कण्ठे=गले प्रदेशं= स्थानमनतिक्रम्येति यथाप्रदेशं यथास्थानम् आसञ्जयामास । समास:-करभः उपमा ययोस्तौ करभोपमौ ऊरू यस्याः सा करभोपमोरूः, इति बहुव्रीहिगर्भबहुव्रीहिः। चूर्णेन गौरस्तं, चूर्णगौरम् । धात्र्याः करौ घात्रीकरौ ताभ्यां धात्रीकराभ्याम् । रघोः नन्दनस्तस्य रघुनन्दनस्य । प्रदेशमनतिक्रम्येति यथाप्रदेशम् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy