SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये व्याख्या--ततः अनन्तरम्, सुनन्दाया:=द्वारपालिकायाः, वचनं वाक्यम्, तस्य अवसानम् = समाप्तिः, तस्मिन् सुनन्दावचनावसाने नरेन्द्रस्य = राज्ञः कन्या = कुमारी, नरेन्द्रकन्या-इन्दुमती, लज्जां-ह्रियं, तनकृत्य = संकोच्य, प्रसादेन = प्रसन्नतया, अमला प्रसन्ना, तया प्रसादामलया दृष्टया दर्शनेन सम्यक् वरणस्य स्वयंवरणार्थं या त्रक् = मधूकमाला तया संवरणस्रजा इव=यथा, कुमारम् = अजम्, प्रत्यग्रहीत् = वने। समास:--सुनन्दायाः वचनं तस्य अवसानम् तस्मिन् सुनन्दावचनावसाने । न तनू: अतनूः, अतनूतनुं कृत्वा, इति तनकृत्य । नरेन्द्रस्य कन्या नरेन्द्रकन्या । प्रसादेन अमला तया प्रसादामलया सम्यक् वरणमिति संवरणं संवरणस्य स्रक तया संवरणस्रजा। हिन्दी-तब सुनन्दा के वचन समाप्त होने पर राजकुमारी इन्दुमती ने लज्जा को कम करके ( संकोच त्यागकर ) प्रसन्नता से खिली आँखों से उस अज को ऐसे स्वीकार किया मानो वह प्रेमपूर्ण दृष्टि, स्वयं वरण की माला हो । अर्थात् इन्दुमती ने आँखों ही आँखों में अज को स्वीकार कर लिया ॥ ८० ॥ सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् । रोमाञ्चलक्ष्येण स गात्रयष्टि भित्त्वा निराकामदरालकेश्याः॥८१।। संजी० सेति । सा कुमारी यूनि तस्मिन्नजेऽभिलाषबन्धमनुरागग्रन्थि शालीनतयाऽधृष्टतया । 'स्यादधृष्टे तु शालीनः' इत्यमरः । 'शालीनकौपीने अधृष्टाकार्ययोः' (पा. ५।२।२०) इति निपातः । वक्तुं न शशाक । तथाप्यरालकेश्याः सोऽभिलाषबन्धो रोमाञ्चलक्ष्येण पुलकव्याजेन । 'व्याजोऽपदेशो लक्ष्यं च' इत्यमरः । गात्रयष्टि भित्त्वा निराक्रामत् सात्त्विकाविर्भावलिङ्गेन प्रकाशित इत्यर्थः ॥८१॥ अन्वयः--सा यूनि तस्मिन् अभिलाषबन्धं शालीनतया वक्तुं न शशाक । (तथापि) अरालकेश्याः स रोमाञ्चलक्ष्येण गात्रयष्टि भित्त्वा निराक्रामत् । व्याख्या-सा=कुमारी यूनि-तरुणे तस्मिन् अजे, अभिलाषस्य =अनुरागस्य बन्धं-ग्रन्थि शालीनस्य भावः शालीनता तया शालीनतया अधृष्टतया वक्तुं= कथयितुं न=नहि शशाक=समर्था, तथापि, तम्, अभिलाषबन्धम् अरालाः कुटिलाः
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy