SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ६४ रघुवंश महाकाव्ये याय = अतिक्रम्य गता स स = भूमिपाल: नराणामिन्द्रस्तस्य नरेन्द्रस्य = राज्ञः मार्गः = पन्थाः, तस्मिन् नरेन्द्रमार्गे = राजमार्गे, अट्टः = क्षौमः, गृहविशेष: इति नरेन्द्रमार्गाट्टः, इव = यथा विवर्णस्य भावः तं विवर्णभावं = प्रभाहीनत्वं मलिनतामिति यावत् अट्टस्तु अन्धकारावृतत्वम् प्रपेदे = प्राप | समासः -- संचरितुं शीलं यस्याः सा संचारिणी । दीपस्य शिखा दीपशिखा । नराणामिन्द्रः नरेन्द्रस्तस्य मार्गः नरेन्द्रमार्गः तस्मिन् अट्टः इति नरेन्द्र मार्गाट्टः । भूमि पालयतीति भूमिपाल:, विवर्णस्य भावः विवर्णभाव:, तं विवर्णभावम् । हिन्दी - रात में चलती फिरती दीपक की शिखा ( ज्योति ) राजमार्ग स्थित जिस-जिस मकान को छोड़कर आगे बढ़ जाती है तो वह वह मकान जैसे अन्धकार से घिर जाता है, उसी प्रकार पति को वरण करने वाली वह इन्दुमती जिस-जिस राजा को छोड़कर आगे बढ़ गई वह वह राजा मलिनता को प्राप्त हो गया । अर्थात् निराश से उन सबका मुख काला पड़ गया ।। ६७ ।। तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूत् । वामेतरः संशयमस्य बाहु: केयूरबन्धोच्छ्वसितैर्नुनोद ॥ ६८ ॥ संजी० -- तस्यामिति । तस्यामिन्दुमत्यामुपस्थितायामासन्नायां सत्यां रघोः सूनू रजो मां वृणीत न वेति समाकुलः संशयितोऽभूत् । अथास्याजस्य वामेतरो वामादितरो दक्षिणो बाहु: केयूरं बध्यतेऽत्रेति केयूरबन्धोऽङ्गदस्थानम् । तस्योच्छ्वसितैः स्फुरणैः संशयं नुनोद ॥ ६८ ॥ अन्वयः - तस्याम् उपस्थितायां (सत्यां ) रघोः सूनुः मां वृणीत न वा इति समाकुलः अभूत् । ( अथ ) अस्य वामेतर: बाहु: केयूरबन्धोच्छ्वसितैः संशयं नुनोद । व्याख्याः—तस्याम् = इन्दुमत्याम् उपस्थितायाम् = समीपमागतायां रघोः - सत्या [दिलीपसूनोः सूनुः पुत्रः = अज:, माम् = अजं वृणीत=वरयेत् नवा इति सम्यग् अकुलः=संशयाक्रान्तः, अभूत् = जातः । अथ = संशयानन्तरम् अस्य = अजस्य वामात् = सव्यात् इतर:=अन्य:, इति वामेतरः = दक्षिण: बाहुः = भुजः, केयूरस्य = अंगदस्य बन्धः =बन्धनस्थानम् तस्य उच्छवसितानि= स्फुरणानि केयूरबन्धोच्छ्वसितानि तैः केयरबन्धोच्छ्वसितैः संशयं = मां वृणीतनवेति सन्देहं नुनोद = निवारयामास ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy