SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये ___संजी०-अथेति । अथ द्वारे नियुक्ता दौवारिकी सुनन्दा । 'तत्र नियुक्तः' (पा. ४।४।६९) इति ठक्प्रत्ययः। 'द्वारादीनां च' (पा. ७।३।४) इत्यौआगमः । आकारेण देवसरूप देवतुल्यम् । उरगाख्यस्य पुरस्य पाण्डयदेशे कान्यकुब्जतीरवतिनागपुरस्य नाथमेत्य प्राप्य । हे चकोराक्षि ! इतो विलोकयेति पूर्वानुशिष्टां पूर्वमुक्तां भोजस्ट राज्ञो गोत्रापत्यं स्त्रियं भोज्यामिन्दुमतीम् । 'क्रोड्यादिभ्यश्च' (पा. ४।१।८०) इत्यत्र 'भोजात्क्षत्रियात्' इत्युपसंख्यानात्ष्यङ्प्रत्ययः। 'यङश्चाप्' (पा. ४।१।७४ ) इति चाप् । निजगाद । 'इतो विलोकय' इति पूर्वमुक्त्वा पश्चाद्वक्तव्यं निजगादेत्यर्थः ॥ ५९ ॥ अन्वयः-अथ दौवारिको देवसरूपम् उरगाख्यस्य पुरस्य नाथम् एत्य हे चकोराक्षि इतः विलोकय इति पूर्वानुशिष्टां भोज्याम् निजगाद । व्याख्या-अथ अनन्तरम्, द्वारे नियुक्ता दौवारिकी द्वारपालिका, सुनन्दा देवानां देवतानाम्, समानतुल्यं, रूपं आकृतिः स्वरूपं यस्य स तम्, देवसरूपम्, उरग इति आख्या यस्य तत् तस्य उरगाख्यस्य पुरस्य नगरस्य, उरगपुरस्य नागपुरस्येत्यर्थः, नाथम् =स्वामिनम्, एत्य = प्राप्य, चकोरस्य जीवजीवस्य अक्षिणी इव अक्षिणी यस्याः सा तस्याः संबुद्धौ हे चकोराक्षि = हे चकोरनेत्रे । 'जीवञ्जीवः खगान्तरे। द्रुमभेदे चकोरे च' इति हैमः। इतः विलोकय एनम् अवलोकय इति = इत्थम्, पूर्वम् = प्रथमम्, अनुशिष्टा=कथिता ताम् पूर्वानुशिष्टाम् भोजस्य गोत्रापत्यं स्त्री भोज्या तां मोज्याम् इन्दुमतीम् निजगाद-उवाच । इतो विलोकयेति कथयित्वा पश्चात् यत् वक्तव्यं तत् कथयामासेत्यर्थः । समासः-द्वारे नियुक्ता दौवारिकी । देवानां समान रूपं यस्य सः, तम् देवसरूपम् । उरग इति आख्या यस्य तत्, तस्य उरगाख्यस्य । चकोरस्य अक्षिणी इव अक्षिणी यस्याः सा, तस्याः संबुद्धौ हे चकोराक्षि । हिन्दी-इसके पश्चात् द्वारपालिका सुनन्दा, देवता के समान मनोहर नागपुर के राजा के पास जाकर हे चकोर के जैसे नेत्रवाली इधर देखो, (ऐसा वचन ) भोज राजा के वंश में उत्पन्न और पूर्वकथित इन्दुमती से बोली। अर्थात् इधर देखो ऐसा कहकर फिर कार्य की बात कहने लगी ॥ ५९॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy