SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ५४ रघुवंशमहाकाव्ये गम्भीर गर्जना से पहरसमाप्ति की सूचना देने वाले बाजे को बन्द करा देने वाला समुद्र ही प्रातःकाल जगाता है । समुद्र ही बाजे का काम करता है। अर्थात् सागर भी हेमांगद की सेवा करता है और लोगों की बात ही क्या यह भाव है ॥ ५६ ॥ अनेन सा विरहाम्बुराशेस्तीरेषु तालीवनमर्म रेषु । द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ॥ ५७ ॥ संजी०-- अनेनेति । अनेन राज्ञा सार्धं तालीवनैमर्मरेषु मर्मरेति ध्वनत्तु । 'अथ मर्मरः । स्वनिते वस्त्रपर्णानाम्' इत्यमरवचनाद् गुणपरस्यापि 'मर्मर' शब्दस्य गुणिपरत्वं प्रयोगादवसेयम् । अम्बुराशेः समुद्रस्य तीरेषु द्वीपान्तरेभ्य आनीतानि लवङ्गपुष्पाणि देवकुसुमानि यस्तैः । 'लवङ्गं देवकुसुभम्' इत्यमरः । मरुद्भितिरपाकृताः प्रशमिताः स्वेदस्य लवा बिन्दवो यस्याः सा तथाभूता सती त्वं विहर क्रीड ।। ५७ ॥ अन्वयः-अनेन सार्धम् तालीवनमर्मरेषु अम्बुराशेः तीरेषु द्विपान्तरानीत लवंगपुष्पैः मद्भिः अपाकृतस्वेदलवा सती (त्वम्) विहर । व्याख्या-अनेन हेमांगदेन राज्ञा सार्घ=सह तालीनां ताडवृक्षाणां वनानि =काननानि तैः, तालीवनैः मर्मराणि= मर्म रध्वनिमन्ति तेषु तालीवनमर्मरेषु अम्बूनां = जलानां राशिः = समूहः यत्र स अम्बुराशिस्तस्य अम्बुराशेः = समुद्रस्य तीरेषु तटेषु, अन्ये द्वीपाः द्वीपान्तराणि स्तेभ्य: द्वीपान्तरेभ्य: अन्तरीपान्तरेभ्यः आनीतानि-आहृतानि लवंगस्य = लवंगलताया: देवकुसुमस्येत्यर्थः, पुष्पाणि = कुसुमानि यस्ते, तैः द्वीपान्तरानीतलवंगपुष्पैः मरुद्भिः = पवनैः, अपाकृताः अपनीताः स्वेदस्य = धर्मस्य लवाः = बिन्दवः यस्याः सा, अपाकृतस्वेदलवा सती त्वम् विहर = क्रीड विहारं कुरु । __समास:--तालीनां वनानि तेषां मर्मराः येषु तानि, तेषु । अन्ये द्वीपाः द्वीपान्तराणि स्तेभ्यः आनीतानि लवंगपुष्पाणि यैस्ते तैः द्वीपान्तरानीतलवंगपुष्पैः। अम्बूनां राशिः यस्मिन् स तस्य अम्बुराशेः । अपाकृताः स्वेदस्य लवाः यस्या: सा अपाकृतस्वेदलवा। हिन्दी-( यदि इच्छा हो तो इसके साथ विवाह करके ) इस हेमांगद के साथ ताड़ के जंगलों की मर्मर ध्वनि वाले, समुद्र के तटों पर तुम विहार करो।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy