SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः इति विश्वः । संघातार्थेऽत्र "वृद्धाच्छः" इति वक्तव्यात्सामूहिको वुन् । तस्मिन्वार्ट के वयसि मुनीनां वृत्तिरिव वृत्तिर्येषां तेषाम् एतेन वानप्रस्थाश्रमो विवक्षितः। अन्ते शरीरत्यागकाले योगेन परमात्मध्यानेन । 'योगः संनहनोपायध्यानसंगतियुक्तिषु'। इत्यमरः । तनुं देहं त्यजन्तीति तनुश्यजां देहत्यागिनाम् । 'कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः । 'अन्येभ्योऽपि दृश्यते” इति क्विप् । एतेन भिक्ष्वाश्रमो विवक्षितः ॥८॥ अन्वयः-शेषवे. अभ्यस्तविधानां, यौवने, विषयषिणा, वार्षके, मुनिवृत्तीनाम्, अन्ते, योगेन, तनुत्यजा, 'रघूणामन्वयं वक्ष्ये। व्याख्या-शिशोः भावः शंशवं,तस्मिन् शैशवे = बाल्ये, अभ्यस्ताः= पठिताः, विद्याः= शास्त्राणि, यस्ते, तेषामभ्यस्तविद्यानाम्, यूनो भावः, यौवनं तस्मिन् यौवने तारुण्ये, विषयं =भोगविलासम् इच्छन्ति अभिलषन्ति, इति विषयषिणस्तेषां विषयेषिणां तारुण्ये, गृहस्थाश्रमिण इत्यर्थः । वृद्धस्य भावो वाधकं तस्मिन्, वार्धके = वृद्धत्वे, मन्तारः= वेदशास्त्रार्थतत्वावगन्तारः, मुनयस्तेषां वृत्तिरिव वृत्तिः= वर्तनम् = आचार इत्यर्थः, येषां ते तेषां मुनिवृत्तीनां वानप्रस्थाश्रमिणामित्यर्थः, अन्ते = शरीरत्यागसमये, मरणकाले इत्यर्थः, योगेन =चित्तवृत्तिनिरोधेन, भगवद्ध्यानेनेत्यर्थः, तनु शरीरं त्यजन्ति = मुञ्चन्तीति तनुज्यजस्तेषां तनुत्यजाम्, रघणामन्वयमिति संबन्ध।। समा०-शिशोः भावः शैशवम्, तस्मिन् शैशवे, अभ्यस्ताः विद्याः यः ते अभ्यस्तविद्याः तेषाम् अभ्यस्तविद्यानाम्, यूनः भावः यौवनम्, तस्मिन् यौवने, विषयम् इच्छन्ति इति विषयैषिणः, तेषाम् विषयषिणाम्, वृद्धस्य भावः वार्चकम्, तस्मिन् वार्द्धके, मन्तार: मुनयः मुनीनाम् वृत्तिः इव वृत्तिः येषाम् ते मुनिवृत्तयः, तेषाम् मुनिवृत्तीनाम्, तनुम् त्यजन्ति इति तनुत्यजः, तेषाम् तनुत्यजाम् । अभि-प्रथमे वयसि पूर्णेन ब्रह्मचर्येन सर्वविधविद्याभ्यासं कुर्वन्तः, यौवने. च शास्त्रानुमोदितं गृहस्थसुखमुपभुजानाः, जरायां संप्राप्तायां स्वसुतेभ्यो राज्यं समर्प्य वने तपस्यन्तः, अन्ते च योगाभ्यासेन 'समाधिना' देहत्यागिन: ये रघव आसन् तेषामन्वयं वक्ष्ये ।। हिन्दी--जो बचपन में ब्रह्मचारी रहकर विद्याभ्यास करते थे, जो जवानी में गृहस्थाश्रम में रह कर विषयों का उपभोग करते थे और बुढ़ापे में मुनियों
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy