SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः . चित्तैः निपेतुः = पतिताः संजाताः, आसनेषु सिंहासनेषु देहैः शरीरैः केवलम्= एव स्थिता:= उपविष्टाः, स्वयंवरस्थितो राजलोकः स्वशरीरमपि विस्मृत्य इन्दु'मत्यामेव संलग्नचित्त : संजात इत्यर्थः । समास:-एकश्चासौ लक्ष्यः इति एकलक्ष्य:, नेत्राणाम् शतानीति नेत्रशतानि, नेत्रशतानाम् एकलक्ष्यस्तस्मिन् नेत्रशतैकलक्ष्ये, कन्या एवेति कन्यामयः तस्मिन् कन्यामये । विदधातीति विधाता तस्य विधातुः विधानस्य अतिशयः इति विधानातिशयस्तस्मिन् विधानातिशये, नराणामिन्द्राः इति नरेन्द्राः। हिन्दी-सैकड़ों नेत्रों का एक ही दर्शनीय उस कन्यास्वरूप में राजा लोग अपने अन्त:करण से गिर पड़े ( अर्थात् एकटक होकर देखने लगे ) वह कन्या ब्रह्मा की रचना की एक अतीव सुन्दर कला थी। और सिंहासनों पर तो उन राजाओं का केवल शरीरमात्र था। अर्थात उनका देह तो मंचों पर अवश्य पड़ा था किन्तु वे अपने को भूलकर एकमात्र इन्दुमती को तन्मय होकर देखते ही रहे ॥११॥ तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः। प्रवालशोभा इव पादपानांशृङ्गारचेष्टा विविधा बभूवुः ॥१२॥ संजी०-तामिति । तामिन्दुमती प्रति अभिव्यक्तमनोरथानां प्ररूढाभिलाषाणां महीपतीनां राज्ञां प्रणयाग्रदूत्यः प्रणयः प्रार्थना प्रेम वा । 'प्रणयास्त्वमी। विस्रम्भयाच्चाप्रेमाणः' इत्यमरः । प्रणयेष्वग्रदूत्यः प्रथमदूतिकाः। प्रणयप्रकाशकत्वसाम्याद् दूतीत्वव्यपदेशः । विविधाः शृंगारचेष्टाः शृंगारविकाराः पादपानां प्रवालशोभाः पल्लवसम्पद इव बभूवुरुतान्नाः । अत्र शृंगारलक्षणं रससुधाकरे-विभावैरनुभावश्च स्वोचितळभिचारिभिः । नीता सदस्यरस्यत्वं रतिः शृंगार उच्यते ॥' रतिरिच्छाविशेषः। तच्चोक्तं तत्रैव-'यूनोरन्योन्यविशेषस्थायिनीच्छा रतिः स्मृता' इति । चेष्टाशब्देन तदनुभावविशेषा उच्यन्ते । तेऽपि तत्रैवोक्ताः-'भावं मनोगतं साक्षात्स्वहेतुं व्यञ्जयन्ति ये । तेऽनुभावा इति ख्याता भ्रूविक्षेपस्मितादयः। ते वेतुवा चित्तगात्रवाग्बुद्धयारम्भसम्भवाः' इति । तत्र गात्रारम्भसम्भवांश्चेष्टाशब्दोक्ताननुभावान् 'कश्चित्'-इत्यादिभिः श्लोकैर्वक्ष्यति । शृंगाराभासश्चायम् । एकत्रैव प्रतिपादनात्।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy