SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ महाकविकालिदास कृत श्री रघुवंश महाकाव्य षष्ठ सर्ग स तत्र मञ्चेषु मनोज्ञवेषान्सिहासनस्थानुपचारवत्सु । वैमानिकानां मरुतामपश्यदाकृष्टलीलान्नरलोकपालान् ॥१॥ जाह्नवी मूनि पादे वा कालः कण्ठे वपुष्यथ । कामारि कामतातं वा कञ्चिद्देवं भजामहे ॥ सञ्जीविनी-स इति । सोजस्तत्र स्थाने उपचारवत्सु राजोपचारवत्सु मञ्चेषु पर्यङ्केषु सिंहासनस्थान्मनोज्ञवेषान्मनोहरनेपथ्यान्वैमानिकानां विमानश्चरताम् । 'चरति' इति ठक्प्रत्ययः । मरुताममराणाम् । 'मरुतो पवनामरौं' इत्यमरः । आकृष्टलीलान्गृहीतसौभाग्यान्, आकृष्टमरुल्लीलानित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । नरलोकं पालयन्तीति नरलोकपालाः। कर्मण्यण्प्रत्ययः । तान्भूपालानपश्यत् । सर्गेऽस्मिन्नुपजातिश्छन्दः ॥१॥ शंकरं पितरम् वन्दे मातरं गिरिजानुगाम् । यत्स्नेरपुण्योपचयः परां प्रौढिमुपागतः ॥१॥ निध्याय शंकरं साम्बं नत्वा च गुरुपादुकाम् । व्याख्यानं रघुवंशस्य धारादत्तः करोम्यहम् ॥२॥ अन्वयः--स तत्र उपचारवत्सु मञ्चेषु सिंहासनस्थान् मनोजवेषान्, वैमानिकानां मरुताम् आकृष्टलीलाम् नरलोकपालान्, अपश्यत् । व्याख्या-सोऽजः तत्र स्वयंवरस्थाने उपचाराः सन्ति येषु ते, तेषु उपचारवत्सु = उपकरणयुक्तेषु मञ्चेषु = पर्यडकेषु सिंहस्य = सिंहप्रतिकृतेः, आसनम् =
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy