SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः ७७ हिन्दी-लालवर्ण के वृक्षों के पत्तों पर पड़ी हुई, हार के स्वच्छ मोतियों के समान निर्मल ओस की बूंदें, लाल-लाल ओठों पर वर्तमान, दाँतों की चमक सहित तुम्हारे मुसकराने की तरह सुन्दर लग रही है ॥७०॥ यावत्प्रतापनिधिराक्रमते न भानु रहाय तावदरुणेन तमो निरस्तम् । आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूस्तव गुरुः स्वयमुच्छिनत्ति ॥७१।। सञ्जीविनी-प्रतापनिधिस्तेजोनिधिर्भानुर्यावन्नाक्रमते नोद्गच्छति 'आङ् उद्गमने' इत्यात्मनेपदम् । तावत् भानावनुदित एवेत्यर्थः । अह्नाय झटिति 'द्राम्झटित्यञ्जसाहाय' इत्यमरः। अरुणेनानूरुणा 'सूरसूतोऽरुणोऽनूरुः' । इत्यमरः तमो निरस्तम् । तथाहि हे वीर ! त्वय्यायोधनेषु युद्धेषु 'युद्धमायोधनं जन्यम्' इत्यमरः। अग्रसरतां पुरःसरतां याते सति तव गुरुः पिता रिपूनस्वयमुच्छिनत्ति कि वा नोच्छिनत्त्येवेत्यर्थः । न खलु योग्यपुत्रन्यस्तभाराणां स्वामिनां स्वयं व्यापारखेद इति भावः ।।७१॥ अन्वयः-प्रतापनिधिः, भानुः, यावत् , न आक्रमते, तावत् , अह्नाय, अरुणेन, तमः, निरस्तं "तथाहि" वोर, त्वयि, आयोधनाग्रसरतां, याते, "सति" तव, गुरुः, रिपून् , स्वयम् , उच्छिनत्ति, किं वा। वाच्य-प्रतापनिधिना भानुना यावत् न आक्रम्यते तावत् , अरुणः तमः निरस्तवान् , गुरुणा रिपवः स्वयमुच्छिद्यन्ते किं वा । व्याख्या-प्रतापस्य तेजसः, निधिः-शेवधिः इति प्रतापनिधिः। भातीति भानुः सूर्यः यावत्-यावत्कालमित्यर्थः । न नहि । आक्रमते-उद्गच्छति, तावत्= अनुदिते, एव भानावित्यर्थः। अह्नायझटिति । अरुणेन-सूर्यसारथिना, तमः अन्धकारः। निरस्तंदूरीकृतम् अपसारितमित्यर्थः। 'तथाहि' हे वीर हे शर । त्वयि अजे, आयोधनेषु-युद्धेषु, अग्रसरताम्-पुरोगामितां यातेप्राते सति । तव अजस्य गुरुः पिता रघुरित्यर्थः। रिपून्-शत्रून् स्वयम् आत्मना उच्छिनत्ति विनाशयति । कि-प्रश्ने वा इति नोच्छिनत्त्येवेत्यर्थः । समा०-प्रतापस्य निधिरिति प्रतापनिधिः। अग्रे सरन्तीति अग्रसराः, तेषां भावः अग्रसरता, आयोधनेषु अग्रसरता, ताम् आयोधनाग्रसरताम् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy