SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः खटवां मुञ्च-त्यज । विनिद्रो भवेत्यर्थः । धात्रा-ब्रह्मणा । गच्छतीति जगत्, तस्य जगतः संसारस्य । धू: भारः जगत्पालनरूपो भार इत्यर्थः । द्विधा= द्विप्रकारेण एव । विभक्ता=विभज्य स्थापिता । ननु खलु । तां=धुरम् । एकतः एककोटौ । तवअजस्य । गुरुः जनकः । रघुरित्यर्थः । विगता नष्टा त्यक्ता इत्यर्थः, निद्रास्वापः येन स विनिद्रः, 'सन्' । बिभर्ति धारयति । तस्याः -धुरः । भवान् -अजः । धुरं वहतीति धुर्यः, धुर्यस्य%3D भारवाहिनः पदं वहनस्थानमिति धुर्यपदम् । अपरम् अन्यत् च धुर्यपदमिति अपरधुर्यग्दम्, अपरधुर्यपदमवलम्बते तच्छील इति अपरधुर्यपदावलम्बी, अस्तीति शेषः, द्वाभ्यां वाह्यमेको न वोढुं समर्थ इति भवान् विनिद्रो भवत्वित्यर्थः । समा०-धुरं वहतीति धुयः, धुयस्य पदमिति धुर्यपदम्, अपरञ्च तत् धुर्यपदमिति अपरधुर्यपदम् , अपरधुर्यपदमवलम्बते तच्छील इति अपरधुर्यपदावलम्बी। अभि०--हे बुद्धिमत्सु श्रेष्ठ ! रात्रिरतिक्रान्ता त्वमपि खटवां परित्यज्य विनिद्रो भव । ब्रह्मणा जगद्रक्षणभारों द्विधा विभज्य तव पितरि त्वयि च स्थापितः । तव पिता निद्रां त्यक्त्वा सावधानः सन् प्रजापालनभारमेकतः बिभ्रत् पृथिवी रक्षति । अतस्त्वमपि निद्रां विहाय अपरधुर्यपदावलम्बी भूत्वा पृथिवों पालय, नहि द्वाभ्यां वहनयोग्यमेकः वोढुं शक्नोतीत्यर्थः । हिन्दी-हे बुद्धिमानों में श्रेष्ठ अज! रात बीत गयी है । इसलिये पलङ्ग को छोड़िये, ब्रह्मा ने पृथ्वी के पालन का भार दो भागों में बाँटा है, जिसे एक ओर तो तुम्हारे पिता रघु सावधान होकर सम्भालते हैं और दूसरी ओर का भार तुम्हें ही सावधान होकर सम्भालना है ॥६६॥ निद्रावशेन भवताऽप्यनवेक्षमाणा, पर्युसुकत्वमबला निशि खण्डितेव । लक्ष्मीर्विनोदयति येन दिगन्तलम्बी, सोऽपि त्वदाननरुचिं विजहाति चन्द्रः ॥६७॥ सब्जीविनी-चन्द्रारविन्दराजवदनादयो लक्ष्मीनिवासस्थानानीति प्रसिद्धिमाश्रित्योच्यते । निद्रावशेन निद्राधीनेन रूयन्तरासङगोऽत्र ध्वन्यते । भवता पर्यु त्सुकत्वमपि त्वय्यनुरक्तत्वमपीत्यर्थः । 'प्रसितोत्सुकाभ्यां तृतीया च' इति सप्तम्यर्थे तृतीया । अपिशब्दस्तद्विषयानुरागस्यानपेक्ष्यत्वद्योतनार्थः। निशि खण्डिता
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy