SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ४२ रघुवंशमहाकाव्ये तं श्लाघ्यसंबन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् । प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम् ।।४।। सब्जीविनी--असौ रघुस्तं भोजं लाध्यसंबन्धमनूचानत्वादिगुणयोगास्पृहणीयसंबन्धं विचिन्त्य विचार्य पुत्रं च दारक्रियायोग्यदशं विवाहयोग्यवयसं विचिन्त्य ससैन्यमेन पुत्र मृद्धा समृद्धां विदाधिपस्य भोजस्य राजधानी पुरी प्रति प्रस्थापयामास घीयतेऽस्यामिति धानी। 'करणाधिकरणयोश्च' इत्यधिकरणे ल्युट. प्रत्ययः, राज्ञां धानीति विग्रहः ॥४०॥ अन्वयः-असी, तम् , लाध्यसम्बन्धम् , विचिन्त्य, पुत्रम् , च दारक्रियायोग्यदशम् 'विचिन्त्य’ ससैन्यम् , एनम् , ऋद्धाम् , विदर्भाधिपराजधानीम् , प्रति, प्रस्थापयामास । बाच्य०--अनेन, एषः, ससैन्यः, प्रस्थापयाञ्चक्रे । व्याख्या--असौ = रधुः । तम् = भोजम् । श्लाषितुम् = प्रशंसितम् योग्यः श्लाघ्यः, श्लाघ्यः संबन्धः-सम्मेलनम् मेन सः श्लाघ्यसम्बन्धः तं श्लाघ्यसम्बन्धम् । विचिन्त्य = विचार्य। पुत्रम् = सुतम् , अजम् । च = तथा । दाराणाम् भार्यायाः, क्रिया-कर्म इति दाक्रिया, दारक्रियायाः योग्या-अनुकूला, दशा अवस्था, यस्य सः दारक्रियायोग्यदशः, तं दारक्रियायोग्यदशम् । 'विचिन्त्य', सेना = चमूः, एव सैन्यम् , सैन्येन सह वर्तत पति ससैन्यः, तं ससैन्यम् । एनम् = अजम् । ऋदाम् = समृदाम् ! विदर्भाधाम् = कथकैशिकानाम् , अधिपः-स्वामी, इति विदर्भाषिपः, विदर्भाधिपस्य राजधानी = राजनगरी इति विदर्भाधिपराजधानी, तां विदर्भाधिपराजधानी, 'प्रति' । प्रस्थापयामास-प्रेषयामास । समा०लाधितु योग्यः श्लाघ्यः, श्लाव्यः सम्बन्धः यस्य सलाध्यसंबंधः, तं श्लाघ्यसम्बन्धम् । दाराणां क्रिया दारक्रिया, दारक्रियाया योग्या दशा यस्यासो दारक्रियायोग्यदशः, तं दारक्रियायोग्यदशम् । विदर्भाणामधिपो विर्भाधिपः, विदर्भाधिपस्य राजधानी विदर्भाधिपराजधानी, तां विदर्भाधिपराजधानीम् ।। अमि.-रघुणा विदर्भाधिपतिना सह सम्बन्धं प्रशस्यं विचार्य तथा कुमारमजमपि विवाहयोग्यं दृष्ट्वा सेनया सह सोऽजो भोजपुरी प्रति प्रस्थापितः । हिन्दी-रघु ने विदर्भदेश के राजा भोज से सम्बन्ध करना उचित समझा
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy