SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः २१ व्याख्या-एतावत्-इयत् , उक्त्वा-कथयित्वा । प्रतियातुम् प्रतिगन्तुम् , कामः अभिलाषः यस्य सः प्रतियातुकामः, तम् प्रतियातुकामम् । महर्षेः वरतन्तोः शिष्यम् अन्तेवासिनम् । नृणाम-मनुष्याणाम् , पतिः स्वामी, इति नृपतिः, राजा रघुः । निषिध्य=निवार्य। हे विद्वन्-हे बुध ! त्वया कौत्सेन । गुरवेउपाध्यायाय । प्रदेयम्प्रदातुं योग्यम् । वस्तु-पदार्थः। किम् किमात्मकम् । कियत्-कियत्परिमाणम् । वा-इति विकल्पेऽव्ययम् । इति तं कौत्सम् । अन्वयुङ्क्त अपृच्छत् । समा०-प्रतियातुम् कामः यस्य सः प्रतियातुकामः, तम् प्रतियातुकामम् । नृणाम् पतिः नृपतिः। वेत्ति इति विद्वान् , तत्सम्बुद्धौ हे विद्वन् ! प्रदातुम् योग्यम् देयम् । किम् परिमाणमस्य कियत् । अभि०-एवमुक्त्वा यदा कौत्सः प्रस्थातुमियेष तदा स रघुणा निवारितः पृष्टश्च यत् , हे विद्वन् ! त्वया गुरवे देयं वस्तु किमस्ति कियत्परिमाणं चेति । हिन्दी-ऐसा कहकर कौत्स चलने को तैयार हुए तो उन्हें राजा रघु ने रोका और कहा कि हे विद्वन् ! आपको गुरुदक्षिणा में क्या वस्तु देनी है और कितनी देनी है १ ॥ १८॥ ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय । वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥ १६ ॥ सब्जीविनी-ततो यथावद्यथाहम् । अर्हार्थे वतिः । विहिताध्वराय विधिवदनुष्ठितयज्ञाय सदाचारायेत्यर्थः। स्मयावेशविवर्जिताय गर्वाभिनिवेशशल्याय अनुद्धतायेत्यर्थः । वर्णानां ब्राह्मणादीनामाश्रमाणां ब्रह्मचर्यादीनां च गुरवे नियामकाय 'वर्णाः स्युाह्मणादयः' इति । 'ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये । आश्रमोऽस्त्री' इति चामरः । सर्वकार्यनिर्वाहकायेत्यर्थः । तस्मै रघवे विचक्षणो विद्वान्वी ब्रह्मचारी 'वर्णिनो ब्रह्मचारिणः' इत्यमरः । 'वर्णाद् ब्रह्मचारिणि' इतीनिप्रत्ययः । स कौत्सः प्रस्तुतं प्रकृतमाचचले ॥ १६ ॥ अन्वयः ततः यथावत् , विहिताध्वराय, स्मयावेशविवर्जिताय, वर्णाश्रमाणाम् । गुरवे, तस्मै, विचक्षणः, वर्णी, सः, प्रस्तुतम् , आचचो। वाच्य-विचक्षणेन, वर्णिना, तेन, प्रस्तुतं, आचचक्षे। व्याख्या-ततः तदनन्तरम्। यथावत्-शास्त्रानुकूलम, विहितः कृतः,
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy