SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः १६ कलानाम् षोडशांशानाम् , क्षयः=नाशः इति कलाक्षयः । वृद्धः उपचयात् । अतिशयेन श्लाघ्यः प्रशंसनीयः इति श्लाध्यतरः, 'अस्ति' ।। समा०-नराणाम् अधिपः नराधिपः, एकः च असौ नराधिपश्च एकनराधिपः । मखात् जातम् मखजम् , तत् । न विद्यते किञ्चन यस्य सः अकिञ्चनः, अकिञ्चनस्य भावः अकिञ्चलत्वम् । पर्यायेण पीतः पर्यायपीतः, तस्य पर्यायपीतस्य । हिमाः अंशवः यस्य सः हिमांशुः, यस्य हिमांशोः। कलानाम् क्षयः कलादयः । अतिशयेन श्लाघ्यः श्लाध्यतरः । अभि०-हे राजन् , विश्वजिद्यशे सर्वस्वं याजकेभ्यो दवा चक्रवर्त्यपि धनहीनस्त्वं सुतरां शोभसे । यथा शुक्लपक्षीयवृद्ध यपेक्षया क्रमशो देवैः पीतामृतस्य चन्द्रमसः कृष्णपक्षीयः कलादयः शोभनतरो भवति । हिन्दी-हे राजन् ! चक्रवर्ती होते हुए भी विश्वजित् यज्ञ में सम्पूर्ण धन याजकों को दान में देकर धनरहित होकर आप अत्यन्त शोभित हो रहे हैं । ठीक है, देवताओं द्वारा पारी-पारी से प्रतिदिन अमृत पिये जाने के कारण क्षीण होनेवाले चन्द्रमा का दुबलापन शुक्ल पक्ष की वृद्धि की अपेक्षा श्लाघ्य होता है ॥१६॥ तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये । स्वस्त्यस्तु ते निर्गलिताम्बुगर्भ शरद्घनं नार्दति चातकोऽपि ॥१७॥ सब्जीविनी-तत्तस्मात्तावदनन्यकार्यः ‘यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे' इति विश्वः । प्रयोजनान्तररहितोऽहमन्यतो वदान्यान्तराद् गुर्वर्थ गुरुधनमाहर्तुमर्जयितु यतिष्य उद्योक्ष्ये । ते तुभ्यं स्वस्ति शुभमस्तु । 'नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च' इत्यनेन चतुर्थी । तथाहि चातकोऽपि 'धरणीपतितं तोयं चातकानां रुजाकरम्' इति हेतोरनन्यगतिकोऽपीत्यर्थः। निर्गलितोऽम्ब्वेव गर्भो यस्य तं शरद्घनं नार्दति याचते। 'अर्द गती याचने च' इति धातुः । 'याचनार्थे रणेऽर्दनम् इति यादवः॥१७॥ अन्वयः--तत्, यावत्, अनन्यकार्यः, अहम्, अन्यतः, गुर्वर्थम्, आहर्तुम्, यतिष्ये, ते, स्वस्ति, अस्तु, चातकः, अपि, निगलताम्बुगर्भम्, शरद्धगम्, न, अदति । वाच्य-अनन्यकार्येण, मया, यतिष्यते। चातकेन, अपि, निर्गलिताम्बुगर्भः, शरधनः, न अद्यते ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy