SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः शरैरुत्सवसङ्केतान् स कृत्वा विरतोत्सवान । जयोदाहरणं बाह्वोर्गापयामास किन्नरान् ॥ ७ ॥ सञ्जीविनी-स रघुः शरैणिरुत्सवसंकेतान्ताम गणान्विरतोत्सवान्कृत्वा । जित्वेत्यर्थः । किन्नरान् बाह्वोः स्वभुजयोर्जयोदाहरणं जयख्यापकं प्रबन्धविशेष गापयामास । 'गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णो' इत्यनेन किंनराणामपि कर्तृत्वात्मत्वम् । ७॥ अन्वयः-सः शरैः, उत्सवसंकेतान्, विरतोत्सवान्, कृत्वा, बाह्वोः, जयोदा. हरणम्, किन्नरान्, गापयामास । वाच्य-तेन, शरैः किन्नराः बाह्वोः, जयोदाहरणम्, गापयाञ्चकिरे । व्याख्या-स:= रघुः। शरः =बाणः। उत्सवाश्च संकेताश्च उत्सवसंकेताः तान्=तन्नामकान् गणान् । विरतः = शान्तः, उत्सव:-हर्षः, येषां ते विरतोत्सवाः, तान् । कृत्वा=विधाय । बाह्वोः भुजयोः । जयस्योदाहरणम् -जयोदाहरणम् = तत् विजयख्यापकप्रबन्धम् । किन्नरान् गन्धर्वान् । गापयामास =गानं कारयामास। समा०-विरत उत्सवो येषां ते विरतोत्सवाः, तान् विरतोत्सवान् । उदाह्रियते प्रनेनेत्युदाहरणम् , जयस्योदाहरणं जयोदाहरणम्, तत् जयोदाहरणम् । __ अभि० -- रघुः उत्सवसंकेताख्यान्गणान् विजित्य हतहर्षांश्च तान् कृत्वा स्थविजयख्यापकं प्रबन्ध गन्धर्वान् गापयामास । हिन्दी-रघु ने हिमालय पर्वत पर उत्सवसंकेत नामक गणों को जीत कर उनके हर्षोत्सवों को फीका बनाकर अपने पराक्रम का गुणगान गन्धवों से कराया ॥७॥ परस्परेण विज्ञातस्तेषूपायनपाणिषु । राज्ञा हिमवतः सारो राज्ञः सो हिमाद्रिणा ॥७॥ सञ्जीविनी-तेषु गणेषूपायनयुक्ता पाणयो येषां तेषु सत्सु परस्परेणान्योन्यं राज्ञा हिमवतः सारो धनरूपी विज्ञातः। हिमाद्रिणापि राज्ञः सारो बलरूपी विज्ञातः। एतेन तत्रत्यवस्तूनामनय॑त्वं गणानामभूतपूर्वश्च पराजय इति ध्वन्यते ॥७॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy