SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ रघुवंश महाकाव्ये समा० – तुल्यं सत्त्वं येषां ते तुल्यसत्त्वाः तेषां तुल्यसत्वानाम् । गुहासु शेरते इति गुहाशयाः तेषां गुहाशयानाम् । सैन्यस्य घोषः सैन्यदोषः तस्मिन् सैभ्यघोषे । न सम्भ्रमः असम्भ्रमः, तम् असंभ्रमम् । ૬૪ अभि० --- सैन्य समान बलशालिनी हिमालयगुहासु शयानाः सिंहाः सेवाकलकले सत्यपि केवलं ग्रीवभङ्गेनैवावलोकयन्तः स्वभयराहित्यं सूचयन्ति स्म । हिन्दी - सेना के समान बलशाली, हिमालय की गुफानों में लेटे हुए सिंह सेवाशब्द के होने पर भी केवल गर्दन घुमाकर ही देखते हुए अपनी निर्भयता प्रकट कर रहे थे ||७२ ॥ भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः । गङ्गाशीकरिणो मार्गे मस्तस्तं सिषेविरे ॥ ७३ ॥ सञ्जीविनी -- भूर्जपत्रेषु । 'भूर्जपत्रो भुजो भूर्जी मृदुत्ववचमिका मता' इति यादवः । ममंरः शुष्क पर्णध्वनिः । 'मर्मरः शुष्कपरर्णानाम्' । इति यादवः । श्रयं च शुक्लादिशब्दवद् गुणिन्यपि वर्तते प्रयोज्यते च । 'मर्मरेर गुरुधूपगन्धिभिः" इति । अतो मरीभूतः मर्मरशब्दवन्तौ भूता इत्यर्थः । कीचकानां वेणुविशेषाणां ध्वनिहेतवः । श्रोत्रसुखाश्चेति भावः । गङ्गाशीकरिणः । शीतला इत्यर्थः । मरुतो वाता मार्गे तं रघुम् सिषेविरे ॥७३॥ अन्वयः- - भूर्जेषु, मर्मरीभूताः कीचंष ध्वनिहेतवः, गङ्गाशीकरिरणः, मरुतः, मार्गे, तम्, सिषेविरे । वाच्य० - मर्मरीभूतेः कीचकध्वनिहेतुभिः गंगाशीकरिभिः मरुद्भिः मार्गे सः सिषेवे । व्याख्या -- मूर्जेषु = भूर्जपत्रेषु । श्रममेश ममेरा: सम्पद्यमाना इति मर्मरी - भूताः = मर्मरशब्दवन्त: । ध्वनेः = शब्दस्य हेतवः कारणानि इति ध्वनिहेतवः । कीचकानां = वेणुविशेषाणां ध्वनिहेतवः कीचकध्वनितत्रः, तैः । " कीचका वेणवस्ते स्युर्ये स्वनन्त्य निलोदूधताः" इत्यमरः । गंगाया:= भागीरथ्याः, शीकरा:= कणःः सन्त्येष्विति गङ्गाशीकरिणः मरुतः = वायवः । तम् = २घुम् । सिषेविरे== सेवितवन्तः । समा० - श्रमरा: मर्भरः सम्पद्यमानाः मर्मरीभूताः । कीचकानां ध्वनिः 2
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy