SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः - यवनीमुखपद्मानां सेहे मधुमदं न सः । बालातपमिवाब्जानामकालजलदोदयः ॥६१॥ सञ्जीविनी-ततः सः रघुर्यवनीनां यवनस्त्रीणाम् । “जातेरसोविषयादयोपधात्" इति ङीष् । मुखानि पद्मानीव मुखपमानि । उपमितसमासः । तेषां मधुना मद्येन यो मदो मदरागः। कार्यकारणभावयोरभेदेन निर्देशः । तं न सेहे । कमिव । अकाले प्रावृड्व्यतिरिक्से काले जलदोदयः प्रायेण प्रावृषि पद्मविकाशस्याप्रसक्तत्वादब्जानां संबन्धिनं बालातपमिव । मजहितत्वादब्जसंबन्धित्वं सौरातपस्य ॥६॥ अन्वयः-सः, यवनीमुखपमानाम्, मधुमदम्, प्रकालजलदोदयः, मन्त्रा. नाम्, बालातपम्, इ३, न, सेहे। वाच्य-तेन, मधुमदः, प्रकाजलदोदयेन, बालातपः, इव, न, सेहे । . व्याख्या-सः = रघुः। यवनीनाम् = यवनाङ्गनानाम्, मुखान्याननानि पद्मानि-कमलानि इव यवनीमुखपद्मानि, तेषाम् । मधुना = मद्येव 'जनितः' मदः = रागः, मधुमदः, तम् । भकाले = मनवसरे, यः जलदस्य-मेघस्य, उदयः = प्रादुर्भावः, इति जलदोदयः । प्रजानाम् = कमलानाम् । बालातपम्= प्रातःकालीनातपमिव । न = नैव । सेहे सोढवान् । समा०-मुखानि पद्मानीव मुखपमानि, यवनानां स्त्रियः यवन्यः, यवनीनां मुखपमानि यवनीमुखपद्मानि, तेषां यवनीमुखपद्मानाम् । मधुनः मदर मधुमदः, तम् मधुमदम्, मधुना मदम् इति वा । जलं ददातीति जलः, जलदस्य उदयः जलदोदयः, न कालः प्रकालः, प्रकाले जलदोदयः प्रकालजलदोदयः । बालश्चासौ मातपश्च बालातपः, तं बालातपम् । प्रप्सु जातानि अब्जानि, तेषामब्जानाम् । अभि-यथा वर्षातिरिक्तसमये मेघादुर्भाव: कमलविकासकारिबालातपं न सहते तथैव रघुरपि पारसीकयवनाङ्गनाननकमलानां मदिरापानजनित. रागं न सोढवान् । ताः पतिवियुक्ताश्चके । हिन्दी-जैसे कि वर्षाकाल के अतिरिक्त अन्य समय में मेघ का उदय कमलों को विकसित करनेवाली सूर्य की बालकिरणों को नहीं सहन कर सकता
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy