SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये व्याख्या-- खजूरीणां स्कन्धाः स्कन्धप्रदेशाः खजूरीस्कन्धाः, तेषुनद्धा। बद्धा इति खजूरीस्कन्धनद्धाः, तेषाम् करिणाम् गजानाम् । मदस्य-दावस्य, ग उद्गारः = स्राव: इति मदोद्गारः, तेन सुगन्धयः-सुरभिता इति मदोद्गारसुगन्धयस्तेषु । कटेषु = गण्डस्थलेषु । पुन्नागेभ्यः = नागकेशरेभ्यः, पुन्नागान्विहायेत्यर्थः । शिलीमुखाः = भ्रमराः । पेतुः = न्यपतन् । समा० ... खर्जुरीणां स्कन्षु नद्धाः खजूरीम्कन्धनद्धाः, नेषां खजूरीस्कन्धमद्ध नाम् । मदस्य उद्गारः, मदोद्गारः, मदोद्गारेण सुगन्धयः मदोद्गारसुगन्धयः, तेषु मदोद्गारसुगन्धिषु । अभि-भ्रमरा: नागकेशरपुष्पाणि विहाय खजूरीस्कन्धेषु निबद्धानां सेनागजानां मदजल मुक्षु गण्डस्थलेषु न्यपतन् । हिन्दी-भौंरे नागकेशर के पुष्पों से उड़-उड़ कर खजूर के तनों में धंधे हुए सेना के हाथियों के मद बरसानेवाले गण्डस्थलोंपर बैठने के लिए टूट पड़े ।। ५८ ॥ अवकाशं किलोदवान् रामायाभ्यर्थितो ददौ । अपरान्तमहीपालव्याजेन रघवे करम् ।।५।। सञ्जीविनी-उदन्वानुदधी रामाय जामदग्न्याय । अभ्यथितो याचितः सन् । अवकाशं स्थानं ददौ किल । किले ति प्रसिद्धौ। रघवे त्वपरान्तमहीपालव्याजेन करं बलिं ददौ । 'बलिहस्तांशवः कराः' इत्यमरः । अपरान्तानां समुद्रभध्यदेशवर्तित्वात्त दत्त करे समुद्रदत्तत्वोपचारः। करदानं च भीत्या न तु याच्येति रामाद्रघोरुत्कर्षः ।। ५८ ॥ छान्वयः--उदन्वान, रामाय, अभ्यर्थितः, अवकाशं, ददौ, किल, रघवे, अपरान्त महीपालव्याजेन, करम्, ददौ । वाच्य०-उदन्वता अभ्यथितेन सता अवकाशः ददे, रधवे कर: ददे । व्याख्या-उदन्वान्-उदधिः। रामाय-परशुरामाय । अथितः-प्रार्थितः सन् । अवकाशम् मार्गम् । ददौ प्रदात् । किलेति प्रसिद्धौ। रघवे - दिलीप. पुत्राय तु । अपरान्ता: = पाश्चात्याः,ये महीपाला:-राजानः इत्यपरान्तमहीपाखास्तेषां व्याजः-मिषः इत्यपरान्तमदीपालव्याजस्तेन । करम् = बलिम् । ददौ ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy