SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः 'गन्धसारो मलयजो भद्रश्चीश्चन्दनोऽस्त्रियाम्' इत्यमरः । स्तनपक्षे प्रान्तेषु व्याप्तचन्दनानुलेपो ! तस्या दक्षिणस्या दिशः स्तनाविव स्थिती मलयदर्दुरौ नाम शैली यथाकामं यथेच्छं निविश्योपभुज्य । “निवेशो भृतिभोगयोः' इत्यमरः । उदकाग्यस्य सन्तीत्युदन्वानुदषिः । 'उदन्वदनुधौ ' इति निपातः । उदन्वता दूरान्मुक्तं दूरतस्त्यक्तम् । 'स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन' इति समासः । 'पञ्चम्यास्तोकादिभ्यः' इत्यलुक । स्रस्तांशुक मेदिन्या नितम्बमिव स्थितं सा सह्याद्रिमलङ्यत्त्राप्तोऽतिक्रान्तो वा ॥ ५१-५२ ॥ इति युग्मम् । अन्वयः-असह्यविक्रमः, सः, तटेषु, आलीमचन्दनौ, तस्याः दिशः, स्तनो, इव, “स्थितो' मलयदर्दुरी, शैली, यथाकामम्, निर्विश्य, उदन्वता, दूरात्, मुक्तम् स्रस्तांशुकम्, मेदिन्याः, नितम्बम्, इव, स्थितम्, सह्यम्, अलङ्घयत् । वाच्य०-असह्यविक्रमेण, तेन, दूरात, मुक्तः स्रस्तांशुकः, मेदिन्याः नितम्बः, इव, "स्थितः', सह्यः अलङ्घयत । व्याख्या-न सह्यः=सहनाहः, विक्रमः- पराक्रमः यस्य तादृशः असह्यविक्रमः। सः रघुः । तटेषु-तीरेषु 'सानुषु', स्तनपक्षे प्रान्तभागेषु । मासमन्ताल्लीनाः =व्याप्ताः, चन्दना:-चन्दनवृक्षा ययोस्तादृशी, आलीनचन्दनौ । स्तनपक्षे तु आलीनं चन्दनं ययोस्तो व्याप्तचन्दनानुलेपौ । तस्याः-दक्षिणस्याः। दिशाकाष्ठायाः। स्तनो=कुची, इव=यथा, "स्थितो' । मलयश्च दर्दुरश्च तो, तन्नामको, शैलौ= पर्वतो। काममनतिक्रम्य यथाकामम=यथेच्छम् । निर्विश्य उपभुज्य। उदकानि सन्त्यस्योदन्वान्, तेन उदन्वता - समुद्रेण । दूरात् = दूरप्रदेशात् । मुक्तम् - परित्यक्तम्, स्रस्तं च तदंशुकं स्रस्तांशुकम् । तत्-विगलितवस्त्रम् । मेदिन्याः । पृथिव्याः, नितम्बम् - कटिपश्चाद्भागमिव स्थितम् । सह्यम् = सह्यनामकमद्रिम् । अलङ्घयत् = लचितवान् । समा०-सोढुं शक्यः सह्यः, न सह्यः असह्यः, असह्यः विक्रमः यस्य सः असह्यविक्रमः। आलीनाः चन्दनाः ययोस्ती आलीनचन्दनौ, तो मालीनचन्दनौ । आलीनं चन्दनं ययोस्ती आलीनचन्दनौ। मलयश्च दर्दुरश्च मलयद१रौ, तो मलयदर्दुरौ । काममनतिक्रम्य यथाकामम् । स्रस्तमंशुकं यस्मात् सः स्रस्तांशुकः, तं स्रस्तांशुकम् । अभि०-स रघुर्दक्षिणस्या दिशः स्तनयोरिच स्थितयोः मलयदर्दुरपर्वतयोर्यथेच्छं विहृत्य पृथिव्या दूरात्समुद्रजलपरित्यक्तमत एव विलासवत्याः स्रस्तांशुकं नित
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy